________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७७
प्रतिबुद्धः स तेभ्योऽदाधुगंधरपदं वरम् , अमारीपटहोद्घोष, पर्वसु प्रत्यपद्यत ॥ ५५ ॥ तेषु स्वर्गप्रयातेषु, जज्ञिरे पट्टधारकाः, जिनसिंहाभिधास्तेऽपि, वितेनुः शासनोन्नतिम् ॥ ५६ ॥ पट्टे तेषामराजन्त जिनराजाख्यसूरयः, जिनरत्नाभिधानास्तत्पट्टे सूरिवरा बभुः॥ ५७ ॥ पंचषष्टितमे पट्टे सत्तमा जज्ञिरे ततः, सूरयो जिनचन्द्रास्ते, स्वनामानुगुणं व्यधुः ॥ ५८ ॥ पट्टे रसर्तुप्रमिते जिनादिसुखसूरयः, रेजिरे शुद्धयशसा, धवलीकृतदिङ्मुखाः ॥ ५९ ॥ रसर्पिमितपट्टेऽथ, जि. नाद्या भक्तिसूरयः, आसन्भव्यमनोऽम्भोधि प्रबोधे भानुसंनिभाः ॥६०॥ जिनादिसुखसूरीणां कर्मचन्द्राभिधः परे, विनेया नयभंगीषु, निपुणा अभवन्भुवि ॥ ६१ ॥ तेषामीश्वरदासाख्याः शिष्या आसन्सतां मताः, तद्विनेया वृद्धिचन्द्रा नयनीतिविशारदाः ॥ ६२॥ तच्छिष्या लालचन्द्राख्या अभवन्नतिविश्रुताः, जिनभाषिततत्त्वार्थज्ञातारोऽमलबुद्धयः ॥ ६३ ॥ तेषां विनेया अभवन्रूपचन्द्रा महाधियः, प्रायः शातोत्पादके ते पुरे नागपुरेऽवसन् ॥ ६४ ॥ नभोमुनिमिते पट्टे जिन हर्षाख्यसूरयः, अलंचकू रूपचन्द्रास्तस्पार्धेव्रतमाददुः ॥ ६५ ॥ एवंवीराद्रूपचन्द्रसंतानउपवर्णितः, इत्यादि समाधानम् ॥ हे हंसराघवादयो पूर्वदर्शितपट्टपरम्परायां कुत्राप्यस्ति हीनाधिकं कल्पितत्वं प्रतिभाषते, ततोद्गीर्यतां नहि तर्हि सिद्धान्तसमाचारीनाम्नि यत्रमुद्रितपुस्तके द्वेषादृष्टिरागेण वा कलुषितान्तःकरणेनच येनमिथ्योपहायोल्लेखं कृतवान् , तस्य श्रीसंघाग्रे सम्यगालोचनेन मिथ्यादुष्कृतं च दत्वा इहलोके परत्रलोके च निर्मलात्मभाजः भवेयुः, इत्यलं पल्लवितेन
For Private And Personal Use Only