________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७१
चंद्रं प्रभुं भक्त्या, भयदेवमहं स्तुवे ॥३॥ श्रीजिनवल्लभ जिनदत्तसूरि जिनचंद्र जिनपतियतींद्राः, लक्ष्मीर्जिनेश्वरगुरुः कुर्वन्तु सुखानि संघस्य ॥ ४ ॥ वन्दे जिनप्रबोधं, जिनचन्द्रयतीश्वरं च जिनकुशलं, जिनपद्मसूरि जिनलब्धि जिनचंद्र जिनोदया जञ्जः ॥५॥ जिनराज जिनभद्रं, जिनचंद्रं जिनसमुद्रसरिवरं, सूरि श्रीजिनहंसं, जिनमाणिक्यं च वन्देऽहं ॥ ६॥ आकार्य गुर्जरदिशोवरलाभपुर्या, श्रीसाहिना गुरुगुणानिपुणानिरीक्ष्य, सन्मानिता युगवरप्रवरावदाता, जातावशीकृतसुरा जिनचन्द्रपूज्याः ॥७॥ तत्पट्टे जिनसिंहमूरिसुगुरुर्जातस्ततोधीमंतां, मान्यः श्रीजिनराजसूरिमुनिपस्तत्पट्टसूर्योपमः, श्रीमच्छ्रीजिनरत्नमरिगणभृत् श्रीजैनचन्द्रस्ततः, पूज्यः श्रीजिनसौख्यसूरिरभवद्विद्यावतामुत्तमः ॥८॥ तत्पट्टोदयशैलभास्करनिभस्तेजखिनामग्रणीः श्रीमच्छ्रीजिनभक्तिसरिसुगुरुर्जज्ञे गणाधीश्वरः, तत्पदाबुजसेविनो युगवराः सद्भूतयोगीश्वरा जाता श्रीजिनलाभमरिगुरवः प्रज्ञागुणानुत्तराः ॥९॥ संवद्वेदहुताशनाष्टवसुधासंख्ये शुभे चाविने, द्वादश्युत्तरवासरेऽसितगते श्रीमगुडाख्ये पुरे, यैराप्तं पदमुत्तमंगुणगुरुश्रीसद्गुरोर्वाक्यतस्ते स्युः श्रीजिनचन्द्रमुरिगुरवः संघस्य कामप्रदाः ॥१०॥ श्रीसूरते श्रीजिनचन्द्रसूरिभिः, प्रदत्तपट्टाजितसर्वसूरिभिः, गुणान्वितारंजितभूरिसूरयो, जाताश्च ते श्रीजिनहर्षसूरयः॥ ११ ॥ संवन्नेत्रनिधानसिद्धिवसुधासंख्येसुलग्नोदये, सप्तम्यां सहमासके गुरुयुतौ पक्षे सिते येन वै, श्रीमद्विक्रमपत्तनेगुणनिधौ प्राप्तं पदं चोत्तमं, जीयाच्छ्रीजिनपूर्वगोयतिपतिः सौभाग्यमरिर्गुरुः ॥ १२ ॥ अन्दे शैलधरांकरूपनिधने मासे सिते फाल्गुने, ऐशान्यां
For Private And Personal Use Only