________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०८
भारत्यै श्रीश्रुतज्ञानअधिष्ठायिकायै, नमोनमः श्रीसद्ज्ञानदातृभ्योः श्रीगुरुभ्यः नमोऽस्तु श्रीश्रमणसंघभट्टारकाय नमोऽस्तु पितामहचरित्रशोधिकायै परमसंविग्नसूरिमुख्यपंडितपरिषदे, इति श्रीमजिनकीर्तिरत्नसूरिशाखायां तत्परंपरायां च क्रमात् वरीवय॑ते, सच्चारित्रचूडामणिभगवान् श्रीमजिनकृपाचंद्रसूरीश्वरः तच्छिष्य विद्वच्छिरोमणिः श्रीमदानंदमुनिवर्यसंकलिते लोकभाषोपनिबद्धे तल्लघुगुरुभ्राता। उपाध्याय श्रीजयसागरगणिसंस्कारिते श्रीमयुगप्रधानश्रीजिनदतसूरीश्वरचरिते श्रीमद्अभयदेवसरिश्रीजिनवल्लभमरिचरित्राधिकारवर्णनो नामचतुर्थःसर्गः साक्षेपपरिहारसहितः परिपूर्तिभावमगमत् ।
॥ अथ पंचमसर्गः॥ ॥ तत्रादौ मंगलाचरणम् ॥ अहंतो ज्ञानभाजः सुरवरमहिताः सिद्धिसौधस्थसिद्धाः पंचाचारप्रवीणाः प्रगुणगणधराः पाठकाथागमानां । लोके लोकेशवंद्या सकलयतिवराः साधुधर्माभिलीनाः पंचाप्येते सदाप्ता विदधतु कुशलं विननाशं विधाय ॥१॥ चिंतामणिः कल्पतरुवराको कुर्वन्तु भव्या किमु कामगव्याः ॥ प्रसीदतः श्रीजिनदत्तसूरेः, सर्वे पदाहस्तिपदे प्रविष्टाः ॥२॥
इदानीं श्रीजिनदत्तमूरिविरचिताः सार्धशतकसंख्याका 'मूलगाथाः' छायया च समन्विता वनुम् प्रारभते ।। गुणमणिरोहणगिरियो, रिसहजिणिंदस्स पढममुणिवइणो सिरिउसभसेन गणहारिणोऽणहे पणिवयामि पओ ॥१॥
अर्थः-गुणरूपमणिके रोहणाचलऐसे श्रीऋषभदेवस्वामी प्रथम
For Private And Personal Use Only