________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
जिनशतक |
Acharya Shri Kailassagarsuri Gyanmandir
९३
नमेति - गतप्रत्यागतपादयमको नकारमकाराक्षरद्वयविरचितश्लोक
द्वयं श्लोकयुगलमित्यर्थः । अन्यद्विशेषणं मुखशोभनार्थम् ।
हे नमे एकविंशतीर्थकर । अमान अपरिमेय । नमाम प्रणमाम त्वामित्यध्याहार्यमर्थ सामर्थ्यावा लभ्यम् । इनं स्वामिनम् । आनानां प्राणिनां माननं प्रबोधकं मानं विज्ञानं यस्यासौ आनमाननमान: तं आनमाननमानं भव्यप्राणिप्रबोधकविज्ञानमित्यर्थः । आन इति अन श्वस प्राणने इत्यस्य घोः घञन्तस्य रूपम् । माननमिति मन ज्ञाने इत्यस्य धोः णिना युद्धन्तस्य रूपम् । आमनाम ः आसमन्तात् चिन्तयामः । मन अभ्यासे इत्यस्य धोः लडन्तस्य रूपम् । अनु पश्चात् नुमः वन्दामहे । अनामनं अ-नमनप्रयोजकं मनः चित्तं यस्यासौ अनामनमनाः तत्य सम्बोधनं हे अनामनमनः बलात्कारेण न परान्नामयतीत्यर्थः, अनेन वीतरागत्वं ख्यापितं भवति । अथवा नामनानि नमनशीलानि मनांसि चित्तानि यस्माद् भवन्ति असौ नामनमनाः तस्य सम्बोधनं हे नामनमनः । अथवा नामनं स्तुतिनिमित्तं मनः चित्तं यस्मादसौ नामनमनाः तस्य सम्बोधनं हे नामनमनः । अमम हे अमोह | नः अस्मान् । मन अभ्यासय चिन्तय इत्यर्थः ' मनअभ्यासे इत्यस्य धोः लोडन्तस्य रूपम् ' । एतदुक्तं भवति — हे नमे अमान अमम अनामनमनः त्वां इनं आन माननमानं आमनाम: नमाम अनु नुमः यस्मात्तस्मात् नः अस्मान् मन चिन्तय ॥ ९३ ॥
For Private And Personal Use Only
हे नमिनाथ ! आप हमारे ऐसे अल्पज्ञानियोंके अगोचर हैं । आपका यह विज्ञान भव्यजीवोंको सदा प्रबोध करनेवाला है । आप वीतराग हैं इसीलिये कभी किसीसे बलात्कार नमस्कारादि नहीं कराते । यह संसार आपको देखकर स्वयं ही नमस्कार करता है तथा स्वयं स्तुति करने लगता है । हे