________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्याद्वादग्रन्थमाला ।
वाले हैं। आप जरारहित हैं, अज्ञानरहित हैं । हे परमात्मन् ऐसे आपको मैं नमस्कार करता हूं ।। ८३ ॥ बहुक्रियापदद्वितीयपादमध्ययमकातालुव्यञ्जनावर्णस्वर
गूढद्वितीयपादसर्वतोभद्रः। पारावाररवारापारा क्षमाक्ष क्षमाक्षरा । बामानाममनामावारक्ष महर्द्ध मक्षर ॥ ८४ ॥
परेति-बहुक्रियापदद्वितीयपादमध्ययमकातालुव्यञ्जनावर्णस्वरगढ़द्वितीयपादसर्वतोभद्रः । बहुक्रियापदानि-अम अव आरक्ष । द्वितीय पादे क्षमाक्ष इति मध्ये मध्ये आवर्तितम् । सर्वाणि अतालुव्यञ्जनानि । अवर्णस्वराः सर्वेपि नान्यः स्वरः । द्वितीयपादे यान्यक्षराणि तान्यन्येषु त्रिषु पादेषु सन्ति यतः ततो गूढद्वितीयपादः सर्वैः प्रकारैः पाठः समान इति सर्वतोभद्रः।
पारावारस्य समुद्रस्य रवो ध्वनिः पारावाररवः पारावाररवं इयर्ति गच्छतीति पारावाररवार: तस्य सम्बोधनं पारावाररवार समुद्रध्वनिसदृशवाणीक । न विद्यते पारं अवसानं यस्याः सा अपार अलब्धपर्यन्ता । क्षमां पृथिवीं अगोति व्याप्नोतीति क्षमाक्षः ज्ञानव्याप्त सर्वमेयः तस्य सम्बोधन हे क्षमाक्ष । क्षमा सहिष्णुता सामर्थ्य वा । अक्षरा अविनश्वरा । वामानां पापानाम् । अमन खनक । अम प्रीणय । अव शोभस्व । आरक्ष पालय । मा अस्मदः इबन्तस्य रूपम् । हे ऋद्ध वृद्ध । ऋद्धं वृद्धम् । न क्षरतीत्यक्षरः तस्य सम्योधनं हे अक्षर । समुदायार्थ:-हे कुंथुनाथ, पारावाररवार, क्षमाक्ष, वामानाममन, ऋद्ध, अक्षर, ते क्षमा अक्षरा अपारा यतः ततः मा ऋद्धं अम अव आरक्ष । अतिभाक्तिकस्य वचनमेतत् ॥ ८४ ॥
For Private And Personal Use Only