________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८
स्याद्वादग्रन्थमाला।
आखिला निरवशेषा । पुण्यं शुभम् । मुदा हर्षेण । दातुं दत्तुम् । ध्रुवोदितं नित्योद्गतम् । श्रेयसीत्यनुवर्तते । किमुक्तं भवति-यस्य श्रेयसो भट्टारकस्य पादात् त्रिलोकी अखिला आलोक्य लावण्यं किं विशिष्ट पुण्यं दातुं धूवोदितमिवोर्जितं लातुमिव ननाम इति सम्बन्धः । भट्टारकस्त्वं मा अव इत्युत्तरसम्बन्धः ॥ ४५ ॥
हे श्रेयांसनाथ भगवन् ! आपके चरणकमलोंका सुन्दर लावण्य हर्षपूर्वक पुण्यप्रदान करनेकेलिये ही मानो सदा प्रकाशमान है तथा आतिशय विस्तृत है । हे प्रभो ! त्रिभुवनके समस्त जीव आपके चरणकमलोंका ऐसा सुन्दर लावण्य देखकर उसे ग्रहण करनेकेलिये ही मानों नमस्कार करते हैं । इसलिये हे प्रभो ! मेरी भी आप रक्षा कीजिये ॥४५॥
__ श्लोकयमकः। अपराग समाश्रेयन्ननाम यमितोभियम् । विदार्य सहितावार्य समुत्सन्नज वाजितः॥४६॥ __ अपेति-अपराग वीतराग । समाश्रेयं सम्यगाश्रेयम् । ननाम नौतिस्म । त्रिलोकी इति सम्बन्ध: । यं भट्टारकं । इत : प्राप्तः। भियं भांतिम् । विदार्य प्रभिद्य । सह हितेन वर्तन्ते इति सहिताः तैरावार्यः परिवोष्ठित: सहितावार्यः तस्य संबोधनं हे सहितावार्य । सम्यग् मुत् हर्षः यस्यासौ समुत् । सन् भवन् । हे अज सर्ववित् । वाजित: कंटकितः । किमुक्तं भवति--यस्य पादात् त्रिलोकी लावण्यं लातुमिव यं ननाम । यं वा भव्यजनः इत: भयं विदार्य सहर्षः सन् वाजित: कंटकितः पुलकितशरीरो भवति स त्वं मा अव इत्युत्तरत्र सम्बन्धः ।। ४६ ॥
For Private And Personal Use Only