________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८
स्याद्वादग्रन्थमाला ।
मुरजः । लोकत्रयमहामेयकमलाकरभास्वते । एकप्रियसहायाय नम एकस्वभाव ते ॥ ३५ ॥
लोकत्रयेति-लोकत्रयमेव महामेयं वस्तु लोकत्रयमहामेयम्, कमलानां पद्मानां आकरः कमलाकरः नलिनीवनम् । लोकत्रयमहामेयमेव कमलाकरः लोकत्रयमहामेयकमलाकरः तस्य भास्वान् रवि: लोकत्रयमहा. मेयकमलाकरभास्वान् तस्मै लोकत्रयमहामेयकमलाकरभास्वते । एक प्रधानः । प्रिय: इष्टः । सहायः बन्धुः । प्रियश्चासौ सहायश्च प्रियसहाय: एकश्चासौ प्रियसहायश्च एकप्रियसहायः तस्मै एकप्रियसहायाय । नमः अव्युत्पन्नो झिं संज्ञकः पूजावचनः अस्य योगे अप् । एकस्वभाव एकस्वरूप । ते तुभ्यम् । किमुक्तं भवति-चन्द्रप्रभ इत्यनुवर्तते हे चन्द्रप्रभ एकस्वभाव तुभ्यं नमः एवं विशिष्टाय ॥ ३५ ॥
हे सदा एकरूप ! चन्द्रप्रभ जिनेन्द्र इस अपरिमित तीनों लोकरूपकमलयनको प्रफुल्लित करनेवाले और सबके प्रधान इष्ट, मुख्यबंधु आपकेलिये नमस्कार हो ॥ ३५ ॥
___ अर्द्धभ्रमगृढ द्वितीयपादः । चारुश्रीशुभदौ नौमि रुचा वृद्धौ प्रपावनौ । श्रीवृद्धौतौ शिवौ पादौ शुद्धौ तव शशिप्रभ ॥३६॥
चारुश्रीति—यानि द्वितीयपादाक्षराणि तानि सर्वाणि अन्येषु पादेषु सन्तीति ।
श्रीश्च शुभं च श्रीशुभे चारुणी च ते श्रीशुभे च चारुश्रीशुभे ते दत्तः इति चारुश्रीशुभदौ । नौमि स्तौमि क्रियापदमेतत । रूचा दीप्त्या ।
For Private And Personal Use Only