________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्याद्वादग्रन्थमाला।
मुरजः। यत्तु खेदकरं ध्वान्तं सहस्रगुरपारयन् । भेत्तुं तदन्तरत्यन्तं सहसे गुरु पारयन् ॥३३॥
यत्तुखेदेति-यत् यदोरूपम् । तु अप्यर्थे । खेदकरं दुःखकरं खेदं करोतीति खेदकरम् । ध्वान्तं तमः अज्ञानं मोहः । सहसगुरादित्यः अपिशब्दोऽत्र सम्बन्धनीयः । सहसगुरपि अपारयन् अशक्नुवन् । भेत्तुं विदारयितुम् । तत् ध्वान्तम् । अन्तः अभ्यन्तरम् । अत्यन्तं अत्यर्थम् । अथवा अन्तमतिक्रान्तं अत्यन्तम् । सहसे समर्थो भवसि । भेत्तुं अत्रापि सम्बन्धनीयं काकाक्षिवत् । गुरु महत् । पारयन् शक्नुवन् । त्वं चन्द्रप्रभ इति सम्बन्धनीयम् । किमुक्तं भवति-त्वं चन्द्रप्रभः यदन्तर्ध्वान्तं खेदकर भेत्तुं सहसगुरपि अपारयन् तत् ध्वान्तं भेत्तुं सहसे समर्थो भवसि पारयन् सन् ॥ ३३॥
हे भगवन् ! चन्द्रप्रभ ! जिस अत्यन्त दुःख देनेवाले मोहनीयरूप अन्तरंग और गाढ अंधकारको नाश करनेके लिये स्वयं सहस्ररश्मि सूर्य भी असमर्थ है उस अंधकारको आप सहज ही नष्ट कर देते हो ॥ ३३ ॥
मुरजः। खलोलूकस्य गोब्रातस्तमस्ताप्यति भास्वतः । कालोविकलगोधातः समयोप्यस्य भास्वतः॥३४॥
खलोलुकेति-त्वं चन्द्रप्रभोऽभूः इति सम्बन्धः । अर्थवशाद्विभक्तिपरिणामो भवतीति त्वमिति भास्वतः सम्बन्धात् च भवति ।
For Private And Personal Use Only