________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिनशतक ।
२१ मर्द्धभूमः। नचेनो न च रागादिचेष्टा वा यस्य पापगा। नो वामैः श्रीयतेपारा नयश्री वि यस्य च ॥१८॥
नचेन इति-नच प्रतिषेधवचनम् । इन: स्वामी । नच प्रतिषेधे । राग: आदिर्वेषां ते रागादयः तेषां चेष्टा कायव्यापारः रागादिचेष्टा । वा समुच्चये । यस्य देवस्य तव । पापं गच्छतीति पापगा । चेष्टा च पापगा यस्य नचास्ति । नो नच । वामैः क्षुद्रैः मिध्यादृष्टिभिः । श्रीयते आश्रीयते । अपारा अगाधा अर्थनिचिता । यस्यते । नयस्य आगमस्य त्वदभिप्रायस्य श्री: लक्ष्मी: नयश्रीः । भुवि लोके । हे शंभव एवंविशिष्टस्त्वं मा पायाः । उत्तरश्लोकेन सम्बन्धः ॥ १८ ॥.
भर्द्धभूमः। पूतस्वनवमाचारं तन्वायातं भयाद्रुचा । स्वया वामेश पाया मानतमेकाय॑ शंभव ॥१९॥
पूतस्वेति-पूतः पवित्र: सु सुष्ट अनवम: गणधराद्यनुष्ठितः आचार: पापक्रियानिवृत्तिर्यस्यासौ पूतस्वनवमाचारः अतस्तं पूतस्वनवमाचारम् । तन्वा शरीरेण आयातं आगतम् । भयात् संसारभीते: रुचा। तेजसा । स्वया आत्मीयया आत्मीयतेजसेत्यर्थः । वामाः प्रधानाः प्रधानेपि वामशब्दः प्रवर्तते । वामानामीशः स्वामी वामेश: तस्य सम्बोधनं हे वामेश । पायाः रक्ष । पा रक्षणे इत्यस्योः आशीलिङन्तस्य प्रयोगः ।
न भवमः मनवमः अनधम इत्यर्थः । “निकृष्टे प्रतिकृष्टावरेफयाप्याबमाधमाः" इत्यमरः
For Private And Personal Use Only