________________
Shri Mahavir Jain Aradhana Kendra
१८
www.kobatirth.org
स्याद्वादग्रन्थमाला ।
बा महिमायः तस्य सम्बोधनं हे महिमाय । ते तव । पद् पादः । दृश्यते च पच्छब्दस्य लोके प्रयोगः गौः पदा न स्पृष्टव्या । मया अस्मदः मान्तस्य प्रयोगः । सः तदः बान्तस्य रूपम् । हि निपातोयं स्फुटार्थे । तायते विस्तार्यते तस्य पादस्य गुणाः विस्तार्यन्ते तेषां विस्तारे सति पादस्यापि विस्तारः कृतः । गुणगुणिनोरभेदः । पद्मया लक्ष्म्या सहिता आयतिः शरीरायामः यस्यासौ पद्मयासहितायतिः गमकत्वात्सविधिः । यथा देवदत्तस्य गुरुकुलम् । यथायं गुरुशब्दोन्यमपेक्षते एवं सहितशब्दोपि । अथवा पद्मेषु यातीति पद्मयाः । सह हितेन वर्त्तत इति सहिता । आयति: आज्ञा । सहिता आयतिर्यस्यासौ सहितायतिः पद्मयाश्चासौ संहितायतिश्च पद्मयासहितायतिः । तस्य सम्बोधनं हे पद्मयासहितायते । किमुक्तं भवति है महिमाय पद्मया सहितायते ते पदं गायतः महिमो अयते गाः यतः ततो मया स हि पद् तायते विस्तार्यते स्तूयते इत्यर्थः ॥ १५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
1
हे भगवन् ! आप स्वयं महत्त्वको प्राप्त हुये हो, संसारको हित करनेवाली आपकी आज्ञा अद्यावधि भव्यरूपी कमलोंको सुशोभित कर रही है । हे देव ! यह बात निश्चित है कि 'आपकी स्तुति करने से इस जड़रूप वाणीका भी महत्त्व बढ़ता है । इसीलिये मैं भी आपके चरणकमलोंकी स्तुति करता हूं ॥ १५ ॥
इति ऋषभदेवस्तुतिः ।
१ महिमा गाः अयते इत्यनेन महिम्नः स्तुतिविषयत्वमुक्तम
For Private And Personal Use Only