________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिनशतक ।
१५
ततोतीति...प्रथमपादे, यान्यक्षराणि तानि सर्वाण्यक्षराणि पश्चिमाः यत्र तत्र व्यवस्थितानि, नान्यानि सन्ति ।।
तता विस्तीर्णा ऊतिः रक्षा तताचासावृतिश्च ततोतिः तस्या भावः ततोतिता। तुर्विशेषे । अति पूजायां वर्तमानो झि गि ति संज्ञो न भवति अतएव केवलस्यापि प्रयोगः । किमुक्तं भवति-विशिष्टपूजितप्रतिपालनत्यम् । ते तव युष्मदः प्रयोगः। इतः इदम: प्रयोग: एभ्य इत्यर्थः । केभ्य: तोतृतोतीतितोतृतः, अस्य विवरणं-तोतृता ज्ञातृता, कुतः तु गतौ सौत्रिकोयं धुः सर्वे गत्यर्थी ज्ञानार्थे वर्तन्ते इति । अतिः रक्षा वृद्धिर्वा अव रक्षणे इत्यस्य धोः क्त्यन्तस्य प्रयोगः । तोतृतोते: इति: तोतृतोतीति: ज्ञातृत्ववृद्धिप्रापणमित्यर्थः । अथवा ज्ञातृत्वरक्षणविज्ञानमिति वा । तुदन्तीति तोतृणि तुद् प्रेरणे इत्यस्य धोः प्रयोग: । तोतृतीति तोतृणि ज्ञानावरणादीनीत्यर्थः । तेभ्यः तोतृतोतीतितोतृतः । ततः तस्मात् । तातिः परिग्रहः परायत्तत्वम् । दृश्यते चायं लोके प्रयोगः युष्मत्तात्या वयं वसामः युष्मत्परिग्रहेणेत्यर्थः । न तातिः अतातिः अतात्या तता विस्तीर्णाः अतातितताः अपरिग्रहेण महान्तो जाता इत्यर्थः। अतातिततेषु उता बद्धा ऊतिः रक्षा यस्य स अतातिततोतोतिः तस्य सम्बोधनं हे अतातिततोतोते । ततता विशालता प्रभुता त्रिलोकेशत्यमित्यर्थः । ते तव । ततं विशाल विस्तीर्ण उत बन्ध: ज्ञानावरणादीनां संश्लेषः। ततं च तदुतं च ततोतम् । तस्य तीति ततोतताः तस्य सम्बोधनं हे ततोततः ॥ १३ ॥
हे प्रभो ! आपने विज्ञान और वृद्धिकी प्राप्तिको रोकदेनेवाले इन ज्ञानावरणादिक कर्मोंसे अपनी विशेष रक्षा की है अर्थात्
For Private And Personal Use Only