________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्याद्वादग्रन्थमाला ।
मुरजः । स्वचित्तपटयालिख्य जिनं चारु भजत्ययम् । शुचिरूपतया मुख्यमिनं पुरुनिजश्रियम् ॥१०१॥ ___ स्वचित्तेति-स्वचित्तपटे आत्मीयचेतःपट्टके । आलिख्य लिखित्वा । जिनं पार्श्वनाथम् । चारु शोभनं यथा भवति तथा क्रियाविशेषणमेतत् । भजति सेवते । अयं जनः आत्मांन कथयति । शुचिरूपतया शुद्धस्वरूपत्वेन । मुख्य प्रधानं । इनं स्वामिनं । पुरु महती निजा आत्मीया श्रीलक्ष्मीर्यस्यासौ पुरुनिनश्रीः अतस्तं पुरुनिजश्रियं महदात्मीयलक्ष्मीम् । समुदायार्थ:-जिन पार्श्वनाथं इनं पुरुनिजश्रियं मुख्यं आलिख्य स्वचित्तपटे अयं जनो भजति । किं निमित्तं ? शुचिरूपतया शुद्धस्वरूपमितिकृत्वा ॥ १०१॥
हे पार्श्वनाथ ! आपकी आत्मीय अनंतचतुष्टयरूप शोभा अतिशय विशाल है । आप सबके स्वामी हो । सबमें श्रेष्ठ हो । हे भगवन् यह दास आपको केवल शुद्धस्वरूप मानकर और सुन्दरीतिसे अपने हृदयपटलमें लिखकर अर्थात् अपने हृदयपटलमें आपको विराजमानकरके आपकी सेवा करता है ।। १०१॥
इति पार्श्वनाथस्तुतिः ।
मुरजः। धीमत्सुवन्धमान्याय कामोहामितवित्तृषे । श्रीमते वर्धमानाय नमो नमितविद्विषे ॥१०२॥ __ धीमदिति-धीमान् , बुद्धिमान् , सुवन्द्यः सुस्तुतः, मान्यः पूज्यः । धीमांश्चासौ सुवन्धश्च धीमत्सुवन्द्यः, धीमत्सुवन्धश्वासौ मान्यत्र
For Private And Personal Use Only