SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Acharya S agar Samad काक बीजम्बूस्वामिचरित्रम्। ॥२३॥ उच्चान्निम्ने निम्नादुच्चेऽवतारोतारासमों दन्तपतनात् स्वस्पभुक् बुमुक्षया क्षामकुक्षिरस्थिभस्त्रासहशशरीरो वाईकेऽजनि । स गजोऽन्यदा शुष्कपर्वतनद्यां समुत्तरन् स्खलितपाद एक गिरिकूटमिव मुवि पपात । स चोत्थातुमशकस्तत्रैव पादोपगमनं पालयन्निव तस्थी । तथास्थितोऽसौ विपेदे । विपन्नस्य तस्यापानमांस श्वजम्बूकनकुलादयो बुभुजिरे। तस्य गजस्य सकन्दरपर्वतोपमं विशालापानरन्ध्रशरीरं श्वापदैनिवासीकृतमभूत् । तदीयापानयज्ञशालायां मांसार्थिनः काका द्विजा इव विविशुर्निर्जग्मुश्च । तत्रैको वायसो मांसभोजनादतृप्त उत्पनविदकमिरिवापानमध्य एव तस्थौ । तस्मिन् सारं प्राप्नुवन् स काष्ठमध्ये धुणवदधिकाधिक प्रवेशलीलां कुर्वन् स काको योगीवाभूत् । स गजकायमांसं स्वच्छन्दं मुञ्जानोऽत्यन्तमध्यगतः पूर्वापरविभागाशो बभूव । तस्य गजस्य मुक्तविष्ठ गुदरभं रविकर पूर्ववत् संचुकोच । ततः स काकस्तस्य करिणः संकोचितापाने बद्धद्वारे करण्डे सर्प र तत्रैव तस्थौ, स गजकायो वर्षर्ती प्रबहन्या नया तरङ्गकरैर्नर्मदायामनीयत । नर्मदया च नकाणामुपायनमिव तद्गमशरीर तरत्सवहणमिव समुद्रमध्येउनीयत । तत्र तस्मिन् पविशता जलेन तस्कलेवरमार्दीभूतम् । जलेनैव कृतद्धारात् तस्मात् स काको बहिनिर्जगाम । तस्य गमकायस्यान्तरीपोपमस्योपरिष्टानिषध स सम्यग् विगळणं ददर्श । अप्रतः पार्थतः पश्चाच स जलमय हा दध्यो-“ समुडीय समुद्राचीरं गमिष्यामीति" । स चोडीयोड्डीय समुद्रजलस्य प्रान्तं न प्राप; अपि तु तत्कलेवर एवोपविवेच । मीनमकरादिभिराकम्यमाणं तस्कलेवर सागरे भाराऽऽकान्ता नौरिव सथो ममज । सोऽपि निराधारो वायसः समुद्रे निममज्ज, जलाप्लावनभीत्येव सचः पाचवं माप । ततः खियो मृतवन्यगजसदृश्यः सन्ति, संसारच सागरसदृशोऽस्ति, पुरुषश्च काकतुल्योऽस्ति । गजकायसहशेषु युष्मासु रागवानहमस्मिन् भवसागरे न मक्यामि । ॥२६ For Private And Personal Use Only
SR No.020402
Book TitleJambuswami Charitam
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherRamanlal Chhotalal Parikh
Publication Year1954
Total Pages65
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy