________________
havin Anna Kendra
Acharya Sri Kasagarmur Gyarmandir
यावजी
श्रीजम्बू स्वामिचरित्रम् ।
ममचर्य
अहणम् ।
॥
७
॥
| परावृत्य श्रीसुधर्मस्वामिचरणारविन्दमकरन्दास्वादमिलिन्दो भवामि " एवं विचिन्त्य ऋषभनन्दनः कुटिलग्रह इव स्वरथं वालयित्वा पुनस्तमेव गणधरचरणकमलालकृतं प्रदेशं जगाम ।
तत्र जम्बूकुमारः श्रीसुधर्मस्वामिनमभिवाय यावजीवं मनसा वचसा कर्मणा च ब्रह्मचर्य स्वीकरोमीति विज्ञपयामास । ततो भगवता गणभूताऽनुज्ञातो अम्बूकुमारो नियममङ्गीकृत्य प्रसन्नः कामविकाररहितो निजं धाम जगाम । पित्रोश्च तत्रैवं निजगाद-“हे पितरौ ! अहं गणधरश्रीसुधर्मस्वामिमुखकमलादय सर्वज्ञप्रणीतं कर्मरोगशमनैकभेषजं धर्ममऔषम् । तेन जातभववैराग्यं परिवग्यां महीमुद्यतं मामनुजानीतम् । यत एप संसारो जन्मिनां कारागारसहोदरः खलु प्रतिभाति " | सन्निशम्य तदीयपितरौ गगवस्वरावेवमूचतुः"पस । खमसमयेऽस्मदाशालतोन्मूलनप्रमजनो मा भूः । इदानीमावामिदं चिन्तयावः यत् त्वं सवधूको भविष्यसि, लोचनकुमुदचन्द्र नन्दननन्दनवदनं द्रक्ष्यावः " | विषयभोगयोग्येऽस्मिन् यौवने प्रत्रज्याग्रहणसमयो न तवास्ति । एतस्योचितमा चार किचिदपि किन कामयसे ।। हे वत्स | यदि तव प्रत्रयायां प्रचण्डपवनवेगवदामहो विद्यते तथापि तव गुरवो वयं खलु स्म, इति तावदस्माकं किषिद् वचनमडीकुरु । वरस ! या अष्टौ कन्यास्तुभ्यमस्माभिर्वृतास्तासां पाणिग्रहणेनास्माकं विवादकौतूकं पूरय । कुमार! एवं कृत्वा त्वं निःशई परिबजेः । अथ वयमपि कृतार्थीस्वामनुमनजिष्यामः ।
तदा जम्बकमार उवाच- आर्या ! युष्माकमस्मिन् निर्देशे कृते बुभुक्षोरशनादिव प्रवज्याग्रहणादहं न निषेध्यः " पितरावामित्युच्या कन्यापितृपापरौ शीप्रमूचतु:-" असौ मस्कुमारोऽस्मदाग्रहेणाऽष्टानां बेष्ठिनामष्टाभिः कन्याभिः सह विवाहं करिष्यति "अथ पुनः कन्यापाणिग्रहणानन्तरं मत्कुमारः प्रत्रजिष्यति । हे बेष्ठिनो ! यदि यूर्य पश्चाचापपापं करिष्यथ, तदाऽधुना तद्विवाहं न कारयत ।
॥
७
॥
For Private And Personal Use Only