________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नोपपयमाना परकल्पितकुयुक्तिनिराकरणपूर्वकं ध्वनिद्रव्यत्वसिद्धिः।। शब्दद्रव्यत्वसिद्धिनिगमनम् ॥ क्रमश एतान् विषयान्यरूरूपमहमेतस्मिन् वर्गे।। अथ परगुणपरमाणुमप्युन्नतगिरीन्द्रमिवालोकयन्तः परकीयं दोषपरिफरमपि गच्छतः स्खलनं कापीत्यादिन्यायावलम्बनेन समादधतो मात्सर्यामेध्यांशेनाप्यनवदिग्धमानसाः सन्ति विद्वांसः कतिपये तत्वातत्वविवेकपरिनिष्ठितास्खलत्स्वपरतन्त्राचारबुद्धिविभवा येषामवलोकनेन शब्दतोऽर्थतश्चाशुद्धिं परित्यजन् सन्दर्भशुद्धिं च नुसरनैदम्पार्थप्राधान्येनोपजीवंस्तत्तत्पक्षाणांपूर्वापरीभावहेतुमासादयन् परगुणासहमानभावानभिजजनोत्यैक्षितदूषणगणमगणयनयं ग्रन्थ आसादयिष्यत्यापुष्पदन्तोदयं स्वस्थितिमित्याशास्ते श्रमणगुणमकरन्दद्विरेफः सूरिक्रमकमलोपासको ग्रन्थकारः॥
For Private And Personal Use Only