________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(३४) रिगृहीताः, भाववाक्पुनस्त एव पुद्गलाः शब्दपरिणाममापन्नाः” इत्यादि १॥ “दव्वे मणवइकाए जोग्गदव्यत्ति""मनोवाकाययोग्यानि द्रव्याणि द्रव्ययोगः, एतदुक्तं भवति जीवेनागृहीतानि गृहीतानि वा स्वव्यापाराप्रवृत्तानि द्रव्ययोग" इत्यादि २॥ अत एव च वाग्योगलक्षणमपि सूत्रोक्तं सङ्गच्छते ॥ तथाहि " औदारिकवैक्रियाहारकशरीरव्यापाराहृतवागद्रव्यसमूहसाचिव्याज्जीवव्यापारो यः स वाग्योग इत्यादि" विषमकलिकालकालिमकल्मषकर्दमकलङ्कप्रक्षालनजलनिधिप्रवाहवाक्प्रवाहा वादिवैतालाः शान्तिसूरिपादा उत्तराध्ययनीयचतुस्त्रिंशलेश्याध्ययनटीकायां जगुः । तथा च “ यया भाषाप्रायोग्यान् पुद्गलानादाय भाषात्वेन परिणमय्यावलम्ब्य मुञ्चति सा भाषापर्याप्तिः" इति मलयगिरिभिर्भाषापर्याप्तेर्लक्षणं षड्विधपर्याप्तिस्वरूपोपवर्णनप्रसङ्गे प्रज्ञापनाटीकोक्तमपि सङ्गच्छते । तथा च पञ्चास्तिकायटीकाकृदाशावसनवचनमपि “तत एव अमूर्त्तत्वादेव चाशब्द धर्म ” इत्यादि, “एवमयमुक्तगुणवृत्तिः परमाणुः शब्दस्कन्धपरिणतिशक्तिस्वभावाच्छब्दकारणम्" इत्यादि चशब्दस्य नभोधर्मत्वाभावःपरमाणुजन्यत्वञ्च प्रतिपादयति। एवञ्च भाषायाः
For Private And Personal Use Only