________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
→ ॥ ग्रन्थोपोद्घात
नन्दन्तुनमां प्रणतिततयो वीतरागपरमगुरुप .. इह खलु विश्ववलये तावद्विदितमेतद्विज्ञानकलाकलपिषता विद्वद्वर्गस्य पीवरभागधेयस्य यदुताविद्यासन्तमसकार्णवीभूते मोहमहाशै ठूषवशनानानर्त्तनविधिनर्तितभूतसमुदये रुचिरतत्त्वारुचिपापानुपरतिक्रोधमदनिकृतिमभृतिसम्परायवर्गान्तःकरणशक्त्यादिपारतन्या-- नर्थपरम्परामाबल्ये कलयत्यपि काले कलावाखण्डलास्पदमखण्डे मेदिनीखण्डे सत्तर्कविकल्पमण्डनसुशास्त्रनिपुणमेधाविमण्डलचमत्कार कारितक्षा हिताहितालोकलोचनतया मविदिते भववारिधिनिमज्जज्जन्तुजातयानपात्रे कनक इव निकषच्छेदतापकोटित्रितयसुपरीक्षिते श्रुतिमात्रेगापि द्वेषिजनजातस्यापि मुखमावहति स्वतःमतिष्ठिततत्त्वनिकुरम्बे कुतीथिकोपन्यस्तकुहेतुत्राताशक्यबाधस्वरूपे मुद्राङ्कितरूप्यक इव स्यान्मुद्रामुद्रितत्वेन. सत्यस्वरूपेऽस्मिञ्जिनप्रणीतप्रवचने नास्त्येव परीमाहत्वम् । अपि च न चर्तस्याः परीक्षाया यद्यपि परतीथिकोपरचितकुयुक्तिगिरिविभेदनवनेषु सम्मतितकानेकान्तजयपताकास्याद्वादरनाकरतदवतारिकाप्रमाणमीमांसास्याद्वादमञ्जरी न्यायालोकखण्डखायादिकेषु प्रमाणतर्कग्रन्थेषु तत्त्वप्रतिष्ठितौ किमपि क्षुण्णत्वम् । तथाऽप्यवाचीनकुयुक्तिविमलम्भविपलब्धमनसां मनस्विनामुपकारकारितया नास्या निष्प्रयोजनवारेकाकणोपि ॥ किश्चानेकग्रन्थसमयसमवायसारसन्दोहरूपत्वेनाध्येतृणामनायासतस्तत्तद्विषयकव्यक्तबोधविधायितया सफलखमेवास्या इति दिक् ॥
प्रणयने चास्याः सिद्धान्तोपनिषद्विचारपारावारपारीणानां प्रौढपस्वादिवारणवाराकान्तैकान्तवादवादमदमथनपश्चाननानां विविधविष
For Private And Personal Use Only