SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १२ ) तन्निर्वृतीन्द्रियस्यान्तर्गत्वोपकरणेन्द्रियम् ॥ स्पृष्ट्वापि सद्यः कुरुते - भिव्यक्ति सा स्वगाचराम् ॥२॥ अन्येन्द्रियापेक्षया च श्रवणं पटुशक्तिकम् ॥ ततः स्पृष्टानेव शब्दान् गृह्णातीत्युचितं जगुः ॥३॥” न च श्रोत्रेन्द्रियं द्रव्याग्राहकं रूपस्पर्शाग्राहकबहिरिन्द्रियत्वाद्रसनावदित्यनेनार्थतः शब्दस्य द्रव्यत्वे प्रतिक्षिप्ते क्रियात्वादेरसम्भवेन गुणत्वसिद्धिरिति साम्प्रतम् । शब्दो द्रव्यं क्रियावत्त्वात् इत्यनुमानेन द्रव्यस्वसिद्धेः श्रोत्रसंयोगेनैव तद्ग्रहात् पूर्वोक्तानुमानस्याप्रयोजकत्वात् न च शब्दे क्रियावत्त्वासिद्धिः संहरणवायुवहनादिना तत्सिद्धेः । तथा चोक्तं तत्त्वार्थटीकायां सिद्धसेनगणिभिः । “स चायाति श्रोत्रदेशमाशु पुद्गलमयत्वे सति सक्रियत्वात्, सक्रियत्वं वायुनोह्यमानत्वाद् धूमस्येव, गृहादिषु पिण्डीभवनात्, विशेपतश्च द्वारानुविधानात् तोयवत्, प्रतिघाताच्च नितम्बादिषु वायुवत् ” इत्यादि, आह च भाष्यसुधाम्भोनिधिर्भगवाजिनभद्रगणिक्षमाश्रमणो गन्धशब्दयोर्घाणश्रवणदेशप्राप्त्या हेतुत्वप्रतिपादनमिषेण तयोः पुन लमयत्वसाधनप्रसङ्गे । " For Private And Personal Use Only
SR No.020398
Book TitleJain Tattva Pariksha
Original Sutra AuthorN/A
AuthorUdayvijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1917
Total Pages54
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy