________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(७) स्था अपि सिद्धेः॥वस्तुतस्तु द्रव्यशब्दस्य जीवपरिगृही. तभाषायोग्यपुद्गलसमूहत्वेन भावशब्दस्य च बहिर्निगंतनिर्गच्छद्भाषापरिणामपरिणतभाषावर्गणापरमाणुसमूहत्वेन सूक्ष्मत्वात् कपाटादिनाऽप्रतिबद्धस्य बहिरागमनत एव बुद्धिः। तथैव प्रज्ञप्त्याख्यपञ्चमाङ्गे द्वितीयश. तकषष्ठोद्देशके प्रज्ञापनायां चैकादशभाषापदे आवश्यक. सूत्रस्पर्शिकनियुक्तिटीकायां च प्रतिपादितम्। एवञ्च श्रोत्रस्य सिद्ध प्राप्यकारित्वम् । प्रतिपादिता च श्रोत्रस्य प्राप्यकारितार्थान्तरव्याजेन प्रज्ञप्त्याख्यपञ्चमागे पञ्च. मशते चतुर्थोद्देशके। “छउमत्थे णं मणूसे आउडिज्जमाणाई सद्दाइं सुणेइ तं जहा संखसहाणि वा जाव झुसि. राणि वा ताई भंते किं पुट्टाइं सुणेइ अपुढाई सुणेइ । गोयमा । पुठ्ठाइं सुणेइ नो अपुट्ठाई” इत्यादि ॥ तथा च भगवत्यां द्वितीयशतकचतुर्थोद्देशके प्रज्ञापनायाच पञ्चदशेन्द्रियपदप्रथमोद्देशकेऽपि “पुठपविठ्ठत्ती"त्यादिना श्रोत्रादीनि चक्षुरहितानि स्पृष्टमर्थं प्रविष्टश्च गृहणन्तीत्यादि निगदितम्। अत एव च "शब्दोऽपि स्वपरिणाममजहद् द्वादशयोजनप्रमितात् प्रदेशादागतः श्रोत्रेण प्राप्यकारिणोत्कर्षाद् गृह्यते” इत्याद्यावश्यकटीकायां
छद्मस्थो मनुष्य आकुटयमानान् शब्दान् शृणोति तद्यथा शङ्खशब्दान्वा शुषिराणि वा तानि भदन्त कि स्पृष्टानि शणोति अस्पृष्टानि शृणोति । गौतम । स्पृष्टानि शृणोति नो अस्पृष्टानि।
For Private And Personal Use Only