________________
Shri Mahavir Jan Aadhana Kenda
Acharya Shri Kalasagasun Gymandir
खरतर जय सोमीया
ईर्यापथिकी व्याख्या-'एय'मित्येतत्पूर्ववणितस्वरूप सामायिकवतं वाञ्छितफलदायकं भवति, वाञ्छित-सदृष्टिभिस्समीहितं यत्फलं कर्मनिर्जरारूपं पत्रिंशिका | तददातीति वाञ्छितफलदायक, केन ? 'विधिपूर्व ग्रहणेन विधिवत्तयाऽङ्गीकारेण तथा 'विधिपूर्वं पालनेन च' कायिकवाचिकमानसदोषा-
| णामसाङ्गत्येन यथागृहीतव्रतपारमापणेन च, किम्भूतं तत् ? 'प्रशस्त'मधानं, अविधिना ग्रहणे पालने चाभीष्टफलानाप्त्या निष्फल तैव भवेदिति ॥ २ ॥
भावः ।। अथ विधिगृहीतसामायिकस्य सफलत्वे सिद्धे येन विधिना विहित तत्सफलं स्यात्तमेव विधि ग्रन्थमूलं दर्शयन् अन्धनामान्येवाह
तस्स विहि विन्नेया, आवस्सगवित्तिपमुहगंथाओ। सच्छंदकप्पिआ पुण, देइ फलं दुग्गईरुवं ।।। व्याख्या-'तस्य'सामायिकस्य विधिःकरणपद्धतिः, श्रीमदावश्यकबृहदृत्तिप्रमुखग्रन्थान् विज्ञेयो विशिष्टश्रुतपरिकर्मितमतितया विशेपेणाभ्युपगन्तव्यः, प्रमुखग्रहणादावश्यकचूर्णिपश्चाशकविवरण(तच्चूर्णि)नवपदप्रकरणवृत्तिममुखमसिद्धसकलशिष्टजनसम्मतग्रन्थग्रहणं ज्ञेयं, 'स्वच्छन्द कल्पित'स्तत्तछाननिरपेक्षतया स्वाकुशलमज्ञावलेपावलिप्तमतितया स्वच्छन्देन'स्वाभिप्रायेण शास्त्रनिबद्धार्थानां विपरीतार्थमरूपणतया कल्पितः' कल्पनाविषयी कुतो विधिः, पुनः शब्दः पूर्वपदर्शितफलापेक्षया फलान्तरद्योतको, 'दुर्गतिरूप'नरकतिर्यकुदेवकुमानवरूपकुगतिस्वरूपं फलं ददाति, स्वमतिविहितक्रियाऽनुष्ठानानुगततया विपरीतागमार्थप्ररूपितत्वेन च दुर्लभवोधित्वं जनयतीति भावः, तत्परूपणाकारकाणां त्ववश्यमनाराधकत्वमिति गाथार्थः ।।। अथ विप्रतिपत्तिपरिज्ञानपूर्वकत्वानिर्णयस्येति विप्रतिपत्तिमेवाह
तत्थ य इरियावहिया, सामाइअदंडगस्स पाढाओ। पुब्बिं वा पच्छा वा, विप्पडिवत्ती भवे एसा ।५। व्याख्या-'तत्थति अधिकारवशात 'तो'ति सामायिककरणविधौ सामायिकस्य 'करेमि भंते ! सामाइयं सावज जोगं पञ्चख्खामि"
For Private And Personal use only