________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૨. બેરડીનાં ફળની મીજને મધ સાથે, અથવા ગોળ સાથે અથવા માખણ સાથે વાટીને તેને લેપ કરવાથી મુખરોગ મટે છે.
૩. વરણની છાલને બકરીના દૂધમાં વાટીને તેને લેપ મુખ ઉપર કરવાથી, મેં ઉપર કાળા ડાઘા પડે છે તે છાયા અથવા જુવાनी भीर मटी नय छे. ----
गाना शेय. श्वेतापराजितामूलमुद्धतं सहसर्पिषा । पीतं वा कंधरावद्धं गंडमालोपशांतिकृत् ॥ ८० ॥ श्वेतापराजितामूलं विशालायाः शिफाथवा। गोमूत्र संयुता चैव गंडमालाविनाशिनी ।। ८१ ।। छछंदरीयुतं तैलं पाचितं तस्य लेपतः। गंडमालातिघोरापि लेपभीतापसर्पति ।। ८२ ॥ घल्लास्तैलयुता भुक्ता गंडमालाविनाशिनाः । चित्रोद्धत्तं गलेबद्धं कुंदमूलं निहन्ति ताम् ॥ ८३ ॥ बह्मदंडीशिफासा पिष्टा तंदुलवारिणा। स्फुटितां हन्ति वेगेन गंडमालामतिद्रुतम् ॥ ८४ ।। निर्गुडीमूलिका पिष्टा वरातोयेन सर्पिषा । किंवा पराजितामूलं घृतपीत निहन्ति ताम् ॥ ८५ ॥ शेफालीमूलिका मुक्ता गलशुंडीनिवारिणी। उपजिह्वा शमंयाति तच्छिराशोणिते गते ॥ ८६ ॥ तंदुलोदकसंपिष्टभारंगीमूललेपतः । गलगंडं शमं याति यथा दुष्टोतिपीडितः ॥ ८७ ॥ अजांभः कटुतैलं च तक्रसैंधवसंयुतम् । एतल्लेपो निहन्त्येव गलगंडमसंशयम् ॥ ८८ ॥ हयमाररसो बीजं देवदारोः सुपाचितः। निहन्ति नस्यतः स्वैरं गलरोगमसंशयम् ।। ८९ ॥ द्वौ क्षारौ त्रिफलाव्योष विडंगं लवणान्वितम् । चित्रकश्चेति चूर्णानि गोमूत्रे लेहवत्पचेत् ॥ ९० ॥ एषा गोमूत्रिका वर्तीर्गलरोगविनाशिनी। शस्त्रसाध्यानपि व्याधीनिहन्त्येव न संशयः ॥ ९१ ॥
For Private and Personal Use Only