________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(५५)
કાનના રોગના ઉપાય. कर्णशूलहरः क्षिप्तो लवणार्द्रकयो रसः । दंतैस्तुचर्वयेन्मूलं नंद्यावर्तपलाशयोः ॥ २० ॥ तल्लालापूरिते कर्णे ध्रुवं गोमक्षिकाव्रजेत् । । अर्कपत्रद्वैस्तैलपूरणात् कर्णशूलजित् ॥ २१ ॥ लशुनस्य रसं कोष्णं पूरयेच्छन्दशांतये । मेघनादरसैः पूर्णे कर्णे पूयं प्रणश्यति ॥ १२ ॥ मुशली वाकुची चूर्णखादेद्वाधीर्यशांतये। कतकं शिशुलवणमारनालेन पेषयेत् ॥ २३ ॥ कर्णमूलस्थितं स्फोटं सोष्णं लेपाद्विनाशयेत् । मुशलीकंदचूर्ण च महिषी नवनीततः ॥ २४ ।। लोलयेद्रोधयेद्भांडे धान्यराशी निवेशयेत् । सप्ताहादुधृतं लेपात्कर्णपाली विवर्द्धयेत् ॥ २५ ॥ अश्वगंधावचाकुष्टं गजपिप्पलिका समम् । महिषीनवनीतेन लेपाको विवर्द्धते ॥ २६ ॥ गुंजामूलफलं चूर्ण महिषीक्षीरसंयुतम् । सृतं दधि ततः कुर्यात्रवनीतं तदुत्थितम् ॥ २७ ॥ कर्णस्य लेपनान्नित्यं वर्द्धते नात्र संशयः । अश्वगंधा समं लोभ्रं तत्समागजपिप्पली ॥ २८ ॥ चतुर्भागमितं तोयं तिलतैलं च भागिकं। तैलशेषं पचेत्सर्व तेन लेपे कृते सति ॥ २९ ॥ स्तनयोः कर्णपाल्योश्च स्थूलता विस्तृता भवेत् । भल्लातं दाडिमीछल्लं रिंगिणीमूलिका त्रयम् ॥ ३० ॥
पक्कं शिरीषतैलेन लेपनाकर्ण वृध्धिकृत्। कुष्टाश्वगंधागजपिप्पलीनां चूर्ण महिष्यानवनीतपक्कम् ॥३१॥ कर्णप्रवृध्धि स्तनतुंगतां च काठिन्यमुच्चैर्विदधाति लेपात् ।
रिंगणी दुल्लरी पिष्टा वारिणा वाजिगंधया ॥३२॥ कर्णयो स्तनयो वृधि कुर्वन्त्येते प्रलेपतः।। सतैलककपित्थेन सव्रणा कर्णपालिका ॥ ३३ ॥ लिप्ता पश्चाध्यवाचूर्णयुक्तासौ निर्बणा भवेत् ॥३४॥
For Private and Personal Use Only