________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( १८३ ) ગર્ભધારણના ઉપાય.
Acharya Shri Kailassagarsuri Gyanmandir
गर्भश्च जायते सर्पिर्मुशलीपानमात्रतः ॥ ४३ ॥ ऋतौ कसेरुकं शुंठी सर्पिर्दिनचतुष्टयम् । क्षीरपिष्टं स्त्रियोगर्भ ग्राहयेन्नरसंगमे ॥ ४४ ॥ पद्मोत्पल शिफाक्षीरं शैलूकं सैंधवं मधु । गर्भपुष्टिकरं भुक्तं किंवा कोरंटमूलिका ॥ ४५ ॥ निशा शर्करा पद्मकंदेन मधुनान्वित | भक्षिता वारयत्येव पतंतं गर्भमंजसा ॥ ४६ ॥ लज्जालुधातु की पुष्पमुत्पलं मधुलोधकं । जातस्थया स्त्रिया पीतं गर्भपातं निवारयेत् ॥ ४७ ॥ समभाग सितायुक्तं शालितंडुलचूर्णकम् । उदुंबरी शिफाक्वाथः पीतोगर्भ च रक्षति ॥ ४८ ॥ गर्भिणी गर्भतो रक्तं स्तंभयेन्निपतद्भुतम् । पारापतमलः पीतख्यहं तंदुलवारिणा ॥ ४९ ॥ पाठापामार्गमूलाभ्यां योनिमध्यविलेपनात् । प्रसूतिर्जायते शीघ्रं दुःखं दुःप्रसवे स्त्रियः ॥ ५० ॥ are लांगलिका दंती वृषा पाषाणभेदकः । मूढगर्भासु दातव्यो लेपः सुखप्रसूतये ॥ ५१ ॥ जरायुतं मृतं गर्भं न पतंत जरामपि । योषितां पातयत्येव पादस्थोत्तरणीशिफा ॥ ५२ ॥ विशालाज्यपयोयुक्ता लेपतो योनिशूलहृत् । हृच्छ्रले बीजपूरस्य रसः सैंधवसंयुतः ॥ ५३ ॥ एरंडतैलसंयुक्तमुंडीमूलस्य लेपतः नवप्रसूतनारीणां योनिशूलं प्रशाम्यति ॥ ५४ ॥ योनिशूलहरं पीतं सर्पिः कर्पासबीजयुक् । मरुमांसेन पक्कं वा तैलं योनिप्रलेपनात् ॥ ५५ ॥ एक एव यवक्षारो योनिशूलं निवर्त्तयेत् । सर्पिषा चोष्णतोयेन पीतः शीतं यथानलः ॥ ५६ ॥ शालितंदुलपिष्टेन दुग्धपीतेन योषिताम् । भूरि दुग्धं भवेत्सप्तदिनं क्षीरान्न भोजने ॥ ५७ ॥ स्तनपीडा शमं याति विशालामूललेपतः ।
For Private and Personal Use Only