________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
-: १ :
ईशप्रार्थना *
हिनस्मि' जीवं मनसाऽपि नाऽहं
भाषे न मिथ्या वचनं कदाऽपि ।
न चोरयेऽहं च परस्य वस्तु
न खण्डयामीश ! मदीयवीर्यम् ॥
परोपकारे हि भवामि सज्जो
Acharya Shri Kailassagarsuri Gyanmandir
महत्सु वित्तेन भवामि नम्रः ।
प्रीतिं च धर्मे मम देशजात्यो:
संपादयन्त्वीश ! हितावहां भोः ! ॥
# आत्मानन्द प्रकाश-- भावनगर, पु. २९, अंक ७.
अत्र भविष्यत्कालो वेद्य: 'वर्तमानसामीप्ये भूते भविष्यति च वर्तमानवद्वा' इति व्याकरणविधानात् । एवं भाषे, चोरये, भवामि, इति स्थलेध्वपि बोध्यम् । अयं श्लाकः, छात्रालयस्थछात्राणां प्रार्थना करणायोपयुज्यते विशेषतः, सरलार्थकत्वात्, आत्मभावद्योतकत्वाच्च ।
For Private and Personal Use Only