________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
गादाला
|| त्वात् कोट्युपस्थिति निवेशेपि न प्रतीकार इत्यत आह हेतुनेति । उभयोपस्थापकं साध्योपस्थिति जनकतावच्छेदिका सती तदभावोपस्थिति जनकतावच्छेदकीभूता या प्रकारता तदाश्रयत्वम् निश्चित साध्याभाववद्वत्तित्वस्य साधारण्य घटकता मते केषुचिद् द्दणुकेषु साध्याभावनिश्चयस्य सत्त्व एव अणुत्वस्य तथात्वं संभवतीत्यभिप्रेत्य तादृश निश्चयसत्त्वं सूचयितुं यत्कि-| चिद् ड्यणुकस्य पक्षता लाभाय इदमिति । साधारणधर्मवदधर्मिज्ञानस्य नित्यत्वानित्यत्व सहचरिता णुत्व वद्द्यणुकस्य ज्ञानस्यर्मिणि ड्यणुके नित्यत्वसाध्यकस्थले तस्या लक्षत्व सूचनाय । सद्धेताविति। प्रसंगो ऽतिव्याप्ति : नच समूहालंवैन विषयता मादायातिप्रसंग वारणाय कोटियोपस्थिति जनकतावच्छेदकीभूत विषयता श्रयत्व निवेशन मावश्यकं तथाच कथंधर्मिण्यतिव्याप्ति : यत स्तत्तत्कोटि स्मृतौ तत्तत्साहचर्यादि विशिष्ट विषयक ज्ञानत्वेनैव हेतुता नतु तदविशिष्ट वर्मिज्ञानत्वेनsal संबंधिविशेष्यक ज्ञानादपि संबंध्यंतर स्मरणादन्यथा ऽयं हस्तिसंबंधी घटपदं घटे शत मित्यायाकारक ज्ञानाद्धस्तिघटस्मरणानुदयप्रसंगात् । तथाच धर्मिविषयतायाः कोटिहयोपस्थापकता वच्छेदकत्व मेव नास्तीति वाच्यम् एकसंबंधि विशिष्ट धर्मिज्ञानत्वेनैवापरसंबंधि स्मारकतेति मतानुसारेणैवैतल्लक्षण प्रणयनात् एतन्मतस्य नियुक्तिकतया पक्षधर्मता पदस्य निष्प्रयोजकत्व माकलय्य तत् परित्यागेन सिद्धांतलक्षणस्य वक्ष्यमाणत्वात् । वस्तुतस्तु साध्यसंदेहजनक कोटिहयोपस्थितिजनक ज्ञानविषयत्वमित्यस्य कोटिहयोपस्थितिनिष्ठा या साध्यसंदेहजनकता जन्यतासंबंधेना ऽव्यवहितोत्तरत्वसंबंधेन वा ऽवच्छिन्नायां तदवच्छेदकताया मवच्छेदिका या विषयता तदाश्रयत्वमर्थः (१) एवंच साधारण धर्मादिविशेष्यक ज्ञानस्य कोटिहयस्मरणजनकत्त्वेपि संशये धर्मिविषयता नियमाय तद्धर्मिक संशयं प्रति साधारण्यादिविशिष्ट धर्मवत्तर्मिज्ञानविशिष्ट कोट्युपस्थितित्वेन हेतुतेति
(१) टिप्पणी-अत्र मते धर्मि ज्ञानस्य स्वातंत्रेण कारणता नास्ती तिध्येयं ।
For Private and Personal use only