________________
Shri Mahavir Jain Aradhana Kendra
शिरो०
९
HH JK JK JKJKJKJK JEH JEK JEK JKJKJKJKJ
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
त्वकल्पनात् हेतुमति सर्वत्रसाध्याभावसंदेहे हेतौ साध्य सामानाधिकरण्याभावसंशयस्याचित्यावर्जितत्वात् साध्याभावेन साध्य|सामानाधिकरण्याभावोपस्थापनादिति नन्न सर्वत्र साध्यसंदेहदशायां क्वचिदपि साध्य सामानाधिकरण्यस्यागृहीतत्वेन तदभावस्य | गृहीतुमशक्यत्वात् प्रतियोगितावच्छेदकविशिष्टप्रतियोगिनिश्चयस्याभावधीहेतुताया असकृदावेदितत्वात् अस्तुवा स यथाकथंचित् साध्ये हेतुसामानाधिकरण्याभावसंशयहेतुत्वेन वा तथात्वं न तथापि सामग्रित्वेनप्रतिबंधकतया हेत्वाभासत्वम् अन्यथा व्यभिचरिताव्यभिचरितसमानासमानाधिकरणव्याप्याव्याप्यपक्षधर्मापक्षधर्मादिसाधनवन्निः साधनादिसाधारणद्रव्यत्वादिमत्त्वं हेतोः पक्षस्य चाभासान्तरं स्यात् तदुपदर्शितस्येव तस्यापि ज्ञानस्येतरसाचिव्येन तत्तन्निश्चायिविरोधिसंशयसामग्रि त्वात् एवमसिद्ध्यादिनिश्चायकप्रत्यक्षसामग्रयपि अपि च हेतोः साध्याभावसंदेहविषयमात्रवृत्तित्वं दूषणमिति प्राप्तं तच्च व्यतिरेकिणि हेतौ नियतविषयेणापि संदेहेन सम्पद्यते दूषकतावीजसत्त्वे चासाधारण्यादिसाधारण्यं न दोषाय न वा अत्रैव निर्भरः कर्त्तव्यो हेत्वाभासत्वानुपपत्तेरुक्तत्वादित्यलं पल्लवितेन । इतेि सव्यभिचार शिरोमणिः ॥ ॥ ६ ॥ || 9 |||
For Private and Personal Use Only
***********