________________
Shri Mahavir Jain Aradhana Kendra
૫૭૬
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
હારીતસંહિતા.
तत्राढकं क्षिपेत् क्षीरमाढकं मिश्रयेद्दधि । आढकं माषकुल्माषयूषं पर्युषितं क्षिपेत् ॥ तैलं तिलानां द्रोणं तु कटाहे पाचयेच्छनैः । जीवन्ती जीवनीया च काकोल्यौ जीवकर्षभौ ॥
मेदे द्वे सरलं दारु शल्लकश्च कुचन्दनम् । कालीयकं सर्जरसं मञ्जिष्ठा त्रिसुगन्धिकम् ॥
मांसी शैलेयकं कुष्ठं वचा कालानुसारिवा । शतावरी चाश्वगन्धा शतपुष्पा पुनर्नवा ॥ किण्वकं च सुरा मुस्ता तथा तालीसपत्रकम् । कटुत्रयं वालुकौ च सर्वे तत्रैव मिश्रयेत् ॥ सिद्धं सर्वगुणं श्रेष्ठं कृत्वा मङ्गलवाचनम् । सौवर्णे राजते कुम्भे वाथवा मृण्मयायसे || सुगुप्तं धारयित्वा तु पानाभ्यङ्गे निरूह के | बस्तौ वापि प्रयोक्तव्यं मनुष्यस्य यथाबलम् ॥ वातादितेऽथवा भने भिन्ने वापि प्रदापयेत् । या बन्ध्या च भवेन्नारी पुरुषाश्चाल्परेतसः ॥ क्षीणो वा दुर्बलो वापि तथा जीर्णज्वरातुरः । आमवातातुराणां च तथा पक्षप्रकुंचके ॥ प्रतान के प्रयोक्तव्यं तथा शुष्के हनुग्रहे । कर्णशूले चाक्षिशूले मन्यास्तम्भे च पार्श्वगे ॥ सर्ववातविकाराणां हितं तैलं यथामृतम् । हन्ति श्वासं च कासं च गुल्माश ग्रहणीगदम् ॥ अष्टादशानि कुष्ठानि शीघ्रं वापि नियच्छति । ग्रहभूतपिशाचाश्च डाकिनी शाकिनी तथा ॥ दूरदेशे पलायन्ते बलातैलस्य दर्शनात् । अपस्मारादिदोषांश्च तच्च दूरे नियच्छति ॥
For Private and Personal Use Only