________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीः। हरीतक्यादिनिघंटे तैलसंधानमद्यमधुइक्षुवर्गः:
अथ तैलस्य स्वरूपनिरूपणम्, तिलादिस्निग्धवस्तूनां स्नेहस्तैलमुदाहृतम् । तत्तु वातहरं सर्वं विशेषात्तिलसम्भवम् ॥ १॥ तिलतैलं गुरु स्थैर्य बलवर्णकरं सरम् । वृष्यं विकाशि विशदं मधुरं रसपाकयोः ॥ २ ॥ सूक्ष्मं कषायानुरसं तिक्तं वातकफापहम् । वीर्येणोष्णं हिमं स्पर्शे बृंहणं रक्तपित्तहत् ॥ ३॥ लेखनं बद्दविण्मूत्रं गर्भाशयविशोधनम् । दीपनं बुद्धिदं मेध्यं व्यवायि व्रणमेहनुत् ॥ ४ ॥ श्रोत्रयोनिशिरः शूलनाशनं लघु ताकरम् । त्वच्यं केश्यं च चक्षुष्यमभ्यङ्गे भोजनेऽन्यथा ॥ ५॥ छिन्नभिन्नच्युतोपिष्टमथितक्षतपिच्चिते । भन्नस्फुटितविद्धाग्निदग्धविश्लिष्टदारिते ॥६॥ तथाभिहतनिर्भुग्नमृगव्याधादिविक्षते । बस्तौपानेऽन्नसंस्कारे नस्ये कर्णाक्षिपूरणे ॥७॥
सेकाभ्यङ्गावगाहेषु तिलतैलं प्रशस्यते। टीका-अब तैल आदिवर्गकों कहतेहै उस्में तेलका निरूपण तिलादि स्निग्ध पदार्थोंकों चिकनाईको तेल कहाहै वह सब वात हरताहै विशेषकरके यह ॥ १ ॥ तिलका तैल भारी स्थैर्य बल वर्ण इनकों करनेवाला सर शुक्रकों करनेवाला वि
For Private and Personal Use Only