________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीः। हरीतक्यादिनिघंटे
आम्रादिफलवर्गः।
-
DAO3000
---
तत्रादावाम्रस्य नामानि गुणाश्च. आम्रः प्रोक्तो रसालश्च सहकारोऽतिसौरभः । कामाङ्गो मधुदूतश्च माकन्दः पिकवल्लभः ॥ १ ॥ आम्रपुष्पमतीसारकफपित्तप्रमेहनुत् ।
असृग्दुष्टिहरं शीतं रुचिरुद्राहि वातलम् ॥२॥ टीका-उस्में पहले आमके नाम और गुणकों कहतेहै. आम्र, रसाल, सहकार, अतिसौरभ, कामांग, मधुदृत, माकंद, पिकवल्लभ, यह आम्रके नाम हैं ॥ १॥ आम्रका पुष्प अतिसार, कफ, पित्त, प्रमेह, इनकों हरताहै. और दुष्टरक्तकों हरता, शीतल, रुचि करनेवालाहै, काविज, वातकों करनेवालाहै ॥ २ ॥
आनं वालं कषायाम्लं रुच्यं मारुतपित्तकृत् । तरुणं तु नदत्यक्तं रूक्षं दोषत्रयास्त्रहत् ॥३॥ आम्रमामं त्वचाहीनमातपेतिविशोषितम् । अम्लं स्वादु कषायं स्याद्भेदनं कफवातजित् ॥ ४ ॥ पक्कं तु मधुरं वृष्यं स्निग्धं बलसुखप्रदम् । गुरु वातहरं हृद्यं वयं शीतमपित्तलम् ॥ ५॥ कषायानुरसं वन्हिश्लेष्मशुक्रविवर्धनम् । तदेव वृक्षसम्पक्कं गुरु वातहरं परम् ॥ ६ ॥ मधुराम्लं रसं किञ्चिद्भवेत्पित्तप्रकोपनम् । आनं कृत्रिमपक्कं च तद्भवेत्पित्तनाशनम् ॥७॥ सरस्याम्लस्य हीनस्तु माधुर्याच्च विशेषतः ।
For Private and Personal Use Only