________________
KeCHEMERecketC.
क्षयजन्यतावच्छेदक इति प्रतिपत्तव्यं । न च 'अर्थेनैव धियां विशेष' इति न्यायादर्थाविशेषे ज्ञाने विषयताविशेषासिद्धिरिति शकनीयं, अर्थेऽपि ज्ञानानुरूपस्वभावपरिकल्पनात् , अर्थाविशेषेऽपि परैः समूहालम्बनाद्विशिष्टज्ञानस्य व्यावृत्तये प्रकारिताविशेषस्याभ्युपगमाच्च । न हि तस्य तत्र भासमानवैशिष्टयप्रतियोगिज्ञानत्वमेव निरूपकविशिष्टज्ञानत्वं वक्तुं शक्यं, दण्डपुरुषसंयोगा इति समूहालम्बनेऽतिप्रसङ्गात् । न च भासमानं यद्वैशिष्ट्यप्रतियोगित्वं तद्वत् ज्ञानत्वमेव तथा, दण्डपुरुषसंयोगप्रतियोगित्वानुयोगित्वानीति शाने दण्डविशिष्टज्ञानत्वापत्तेः । न च स्वरूपतो भासमानमित्यायुक्तावपि निस्तारा, प्रतियोगित्वादेरतिरिक्तत्वे प्रकारित्वादेाननिष्ठस्य कल्पनाया एवं लघुत्वात् । अनतिरेके तु दण्डदण्डत्वादिनिर्विकल्पकेऽपि दण्डादिविशिष्टज्ञानस्खापत्तेः। एतेन 'स्वरूपतो भासमानेन वैशिष्टयेन गर्भितलक्षणमपि'अपास्तम्, संयुक्तसमवायादेः सम्बन्धत्वे स्वरूपत इत्यस्य दुवेंचत्वाच । तस्मात्पराभ्युपगतप्रकारिताविशेषवदाकारविशेषः स्याद्वादमुद्रयाऽर्थानुरुद्धस्तदननुरुद्धो वा ज्ञाने दर्शनशब्दव्यपदेशहेतुरनाविलस्तरसमय एवार्थज्ञानयोरविनिगमेनाकाराकारिभावस्वभावाविर्भावादित्येष पुनरस्माकं मनीषोन्मेषः ॥ तस्माद्वयात्मक एक एव केवलावबोध इति फलितं स्वमतमुपदर्शयति-"साईअपञ्जवसियं, ति दोषि ते ससमयं हवइ एवं।।परतित्थियवत्तव्यं, च एगसमयंतरुप्पाओ ॥२-३१॥" साद्यपर्यवसितं केवलमिति हेतोझै अपि ज्ञानदर्शने ते उभयशब्दवाच्यं तदिति यावत् । अयं च स्वसमयः स्वसिद्धान्तः । यस्त्वेकसमयान्तरोत्पादस्तयोभण्यते, तत्परतीथिंकशास्त्रं, नाईद्वचनं, नयाभिप्रायेण प्रवृत्त्वादिति भावः । एवम्भूतवस्तुतत्वश्रद्धानरूप' सम्यग्दर्शनमपि सम्यग्ज्ञानविशेष एव, सम्यग्दर्शनत्वस्यापि सम्यग्ज्ञानत्वव्याप्यजातिविशेषरूपत्वाद्विपयताविशेषरूपत्वाद्धेत्याह-"एवं जिणपण्णचे, सद्दहमाणस्स भावओ भावे ।। पुरिसस्सा
OMPORAREECRECRECIPIERRORE
केवलज्ञाननिरूपणे
केवलज्ञानदएशिनद्वयात्मक
एक एव केव
लोपयोग इति ६ निश्चित
श्री सिद्धसेन
दिवाकरमतफलि
तप्रदर्शनम् ॥