SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ Sh enda Acharya ShatkailassicaisanGyanmantire SAHARANASI यरूपत्वेऽपि छानस्थिकोपयोगस्यापरिपूर्णार्थग्राहित्वान्न मनःपर्यायज्ञान दर्शनसम्भव इत्यप्याहुः। किं च-"मइसुअनाणणिमित्तो, छउमत्थे होइ अत्थउवलंभो॥ एगयरंमि वि तेसिं, ण दंसणं दसणं कत्तो ।। २-२७॥" मतिश्रुतज्ञाननिमित्त छद्मस्था. नामर्थोपलम्भ उक्त आगम । तयारेकतस्मिन्नपि न दर्शन सम्भवति । न चावग्रही दर्शन तस्य ज्ञानात्मकत्वात, ततः कुतो दर्शन ?, नास्तीत्यर्थः । ननु श्रुतमस्पृष्टेऽर्धे किमिति दर्शनं न भवेत्तत्राह-"ज पच्चक्खग्गहणं, ण इति सुअनाणसमिया अत्था ।। तम्हा सणसहो, ण होइ सयले वि सुअनाणे ।।२-२८॥" यस्माच्छ्रतज्ञानप्रमिता अर्थाः प्रत्यक्षग्रहणं न यान्ति, अक्षजस्यैव व्यवहारतः प्रत्यक्षत्वात् । तस्मात्सकलेऽपि श्रुतज्ञाने दर्शनशब्दो न भवति । तथा च 'व्यञ्जनावग्रहाविषयार्थप्रत्यक्षत्वमेव दर्शनत्वम् इति पर्यवसन्नम् । प्रत्यक्षपदादेव श्रुतज्ञानवदनुमित्यादेावृत्तौ परोक्षभिन्नत्वे सतीति विशेषणं न देयम् “मुत्तूण लिंगओ जं" इत्युक्तस्याप्यत्रैव तात्पर्य द्रष्टव्यम् । इत्थं चाचक्षुर्देर्शनमित्यत्र नञः पर्युदासार्थकत्वादचक्षु. दर्शनपदेन मानसदर्शनमेव ग्राह्यं, अप्राप्यकारित्वेन मनस एव चक्षुःसदृशत्वान्न घ्राणदर्शनादीति सर्वमुपपद्यते । तथाचावधि दर्शनमपि कथं सङ्गच्छते, तस्य व्यञ्जनावग्रहविषयार्थग्राहित्वेऽपि व्यवहारतः प्रत्यक्षत्वाभावादित्याशङ्कायाः प्रत्यक्षपदस्य व्यवहारनिश्चयसाधारणप्रत्यक्षार्थत्वात् , अवधिज्ञानस्य च नैश्चयिकप्रत्यक्षत्वाव्याहतेः परिहारमभिप्रयन्नाह-"जं अप्पुट्ठा भावा, ओहिन्नाणस्स होंति पच्चक्खा ॥ तम्हा ओहिन्नाणे,दसणसद्दो वि उवउत्तो॥२-२९ ।। स्पष्टा।। उपयुक्तः लब्धनिमित्तावकाशः।। केवलज्ञानेऽपीदं लक्षणमव्याहतमित्याह-“जं अप्पुढे भावे, जाणइ पासइ य केवली णियमा । तम्हा तं नाणं दं-सणं च अविसेसओ सिद्धं ॥२-३०॥” यतोऽस्पृष्टान भावानियमेनावश्यन्तया केवली चक्षुष्मानिय पुरःस्थितं जानाति केवलज्ञाननिरूपणे केवलज्ञानदर्शनोपयोगप्रसङ्गे मतिज्ञानादिदृष्टा न्तेनतत्त्वप्ररूपणम् ॥ Fer Private And Personal use only
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy