SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ S a kanda Achatya Sas s Gym INI सविवरणं श्रीज्ञाना प्रकरणम् ॥ PUCEROSCACHECK नखलु व्यञ्जनावग्रहार्थावग्रहाववग्रहत्वेन रूपेणकीकृत्यौत्पत्तिक्यादिभेदचतुष्टयप्रक्षेपेण श्रुतनिश्रिताश्रुतनिश्रितसाधारण्येनाष्टाविंशतिभेदपरिगणनं युक्तं, औत्पत्तिक्यादीनां चतुर्णां भेदानामवग्रहादिष्वेवान्तर्भावात्, तथा हि 'द्वितीयकुर्कुटमन्तरेण मदीयः कुकुंटो योद्धव्य ' इति राज्ञादिष्टे परीक्षापात्रस्य भरतस्यौत्पत्तिकी प्रादुर्बभूव, तत्र दर्याध्मातत्वादयं खप्रतिविम्बं दृष्ट्वा युध्यतेत्यवगृह्यते, तत्प्रतिविम्बं किं तडागपयःपूरादिगतं तदनुगुणीभवति दर्पणादिगतं वेति तदनन्तरमीद्यते, ततः कल्लोलादिभिः प्रतिक्षणमपनीयमानत्वादस्पष्टत्वाच्च जलादिगतं विम्ब न तथा, स्थिरत्वेन स्पष्टत्वेन चरणघाताद्यन्वीक्षणयोग्यत्वेन च दपेणगतमेव तत्तथेति निश्चीयते इति । आह च-"केइत्त बंजणोग्गह-वज्जे छोदणमेयम्मि ॥३०१॥ अस्सुअणिस्सिअमेयं, अट्ठावीसइविहन्ति भासन्ति ॥ जमवग्गहो दुभेओ-वग्गहसामन्नो गहिओ ।। ३०२॥" [ केचित्तु व्यञ्जनावग्रहवर्जे क्षिप्त्वैतस्मिन् ॥ अश्रुतनिश्रित काचतुव्यञ्जनावग्रहवजापतास्मन् ॥ अवतानाजत मेवमष्टाविंशतिविधमिति भाषन्ते ।। यदवग्रहो विभेदोऽवग्रहसामान्यतो गृहीतः।]" चउवइरित्ताभावा, जम्हा ण तमोग्गहाइओ भिन्नं ।। तेणोग्गहाइसाम-नओ अतं तग्गयं चेव ॥३०॥"[चतुर्व्यतिरिक्ताभावाद्,यस्मान तदवग्रहादयः ।। भिन्नं तेनावग्रहादिसामान्यतश्चतत्तद्गतमेव ।।] किह पडिकुकुडहीणो, जुज्झे विवण वग्गहा ईहा।। किं सुसिलिट्ठमवाओ, दप्पणसंकेतविम्ब ति ॥३०४॥" [कथं प्रतिकुकूटहीनो युध्येत बिम्बेनाऽवग्रह ईहा ।। किं सुश्लिष्टमपायो दर्पणसंक्रान्तप्रतिबिम्बमिति । ] नन्नवग्रहादिस्य औत्पत्तिक्यादीनामपि कथश्चिभेदोऽस्त्येव सर्वथा भेदस्त्ववग्रहोत्तरविशेषाणामपि नास्त्येवावग्रहत्वेन तयोरभेदादिति चेत्, न, अश्रुतनिश्रितविभाजकोपाधीनामवग्रहादिविभाजकोपाध्यच्याप्यत्वेनोत्तरभेदासम्भवात्, औत्पत्तिक्यादिभेदेन मतिज्ञानस्य साक्षाद्विभागे तु न्यूनत्वापातात, अवग्रहाधन्तर्भावेन विभागे त्वाधिक्याद् व्याप्यव्याप्योपाधिना साक्षाद्विभागाध्योगाच्च, अत एव श्रुत तृतीयस्तर गतिज्ञानप्ररूपणप्रसकेऽष्टाविंशतिसंख्यापू. रणाय परकल्पितस्यौत्पत्तिक्यादिक्षेपणस्य तेषामवनहादिष्वन्तर्भावेन परिहरणम्॥ ॥६४॥ Fat PW And Penal Use Only
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy