________________
Shri Mahavir Jain Aradhana Kendra
गुरुतत्त्वप्रदीपे
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कथं गृहित्वा गुरुणा, स्वहस्तेनेति ते श्रुते । द्वादशावर्तयद् भूति रित्थं वृष्टेति मन्यते ॥ १९ ॥
५४
त्वत्पक्षसम्भवे मुग्ध - चित्तशङका च मास्त्विति । अधुना ग्राह्यते माला, तनिजेनेति मन्यते ॥२०॥ युग्मम् ॥
1
व्याख्या - ननु ते-तव, श्रुते - महानिशीथे गृहित्वा गुरुणा स्वहस्तेन 'गि यि गुरुणा सहत्थेन' इत्यक्षराणि कथं दृश्यन्ते ? गुरो: पुष्पमालाग्रहणे सावद्यत्वात् । उच्यते - इत्थं अमुना प्रकारेण, भूतिः - कल्याणं श्रेय इत्यर्थः । श्रीवीतरागैर्दृष्टा द्वादशावर्तवद् । यथा द्वादशावर्त वन्दन केऽस्थगितमुखस्य श्रेयो दृष्टं कथमपीत्थं बहुगुणमस्तीत्यर्थः । इति मन्यते - सम्भाव्यते । उत्सूत्र भीरूणां भाषासमितिरियम् । ननु यदीत्थं ततः कथं गुरुस्तां मालां स्वहस्तेन न गृह्णाति ? । उच्यते - त्वत्पक्ष सम्भवे त्वन्मतोत्पत्तौ पुष्पमालायाः सावद्यमिति प्ररूपणया मुग्धानां इदं कि सावद्यं निरवद्यं वा ? इति चित्तशङ्का - मनःसंदेहो, माऽस्तु इति कारणात् । अधुना - वर्तमानकाले, तन्निजेन तत्स्वजनस्य पार्श्वात् मालां ग्राह्यते इति मन्यते । महानिशीथस्य चूर्णेर्वृत्तेश्चाऽभावाद् आम्नायाऽ भावेपि सङ्घपरम्परायाः तत्त्वेन इदं घटते इत्यर्थः ।
"
,
अत्र कश्चिद्भ्रान्तः - ' तणवेत्तमुंजकट्ठे भिडमयणमोरपिच्छ डुमयी | पोंडियदंते पत्ताइकरेधरे पिणद्धइ आणाई' ॥ १ ॥
For Private And Personal Use Only
निशीथे अस्या गाथायाः 'पत्तमालियं वा पुप्फमालियं वा फलमालिये वा बीयमालियं वा' इति चूण्णिव्याख्याप्रमाणेन धर्म्ममालारोपणं दूषयन् अस्यैव व्याख्यानस्य मध्ये ' 'जे भिक्खू माउग्गामस्स पूअट्ठाए वा महिमट्ठाए वा सोमट्ठाए वा' इति संतिष्ठमानाक्षरैरेव हतो मन्तव्यः ॥। १९ - २० ॥ युग्मम् ॥