________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
X
गुरुतस्वप्रदीपे
immmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
___ व्याख्या-स्पष्ट: । नवरं-अपनीय-दग्ध्वा एतत् किं ? उच्यतेश्रूयते कर्णाटदेशे दिगम्बरभक्तो राजा श्वेताम्बरभक्ता राज्ञी अभूताम् । ततस्तत्र श्वेताम्बरदर्शनस्याभावादार्द्रगुप्ताचार्यस्य शिष्य आजगाम । आगता राज्ञी तद्वन्दनाय । दिगम्बराणां मध्ये समप्पितश्चतस्योपाश्रयः । दिगम्बररसहिष्णुतया अपवरकस्यान्तः स्थिते तस्मिन् वेश्यां दीपकं च प्रक्षिप्य पिहिते कपाटे। ततो वेश्यया हावभावभक्तपादिभिः प्रार्थितोऽसौ सम्भोगार्थ, भद्रे ! सति वेष न युज्यते सम्भोग आस्माकीनधर्मे। ततो . निजवेषं सन्दह्य किञ्चित्कालं कायोत्सर्गेण स्थित्वा त्वदीप्सितं पूरयिष्यामीत्युक्त्वा निजवेष सन्दह्य दीपके निरावरणः कायोत्सर्गेण तस्थौ । ततस्समायातौ दिगम्बराऽऽकारितो तत्र राज्ञीराजानौ । उद्घाटिते कपाटे राजा प्राह-भद्रे ! कथं त्वद्गुरोस्समीपे वेश्येयम् ?। राज्ञी प्राह-स्वामिन्नसौ यौष्माकीणो गुरुन्निरावरणत्वात् । राजा प्राह-सत्यमेतत् । प्रदत्ता हस्तताला तत्र जनपदेन । हारितं दिगम्बरैरिति प्रघोषो जज्ञे। ततः पारिते कायोत्सर्गे समप्पितं निजोत्तरीयं राज्ञा तस्य । ततस्स प्राह-ममोत्तरीयमेवास्तु, न चोलपट्टादि । यतो देशाचार समाचरतां स्खलना कुत्रापि न भवति ॥३९॥
वेषाय त्यज्यते देशो, वेषो वेशाय नो पुनः ।
इत्यमन्ता ह्यसौ संघ-बाह्यः सूत्रं पठन्नपि ॥४०॥ व्याख्या-स्पष्टः ।।
इति गुरुतत्त्वप्रदीपे उत्सूत्रकन्दकुद्दालापरपर्याये बोटिकयापनीकनिर्धाटना नाम द्वितीयविश्रामस्समाप्तः ॥२॥
इति गुरुतत्त्वप्रदीपे उत्सूत्रकन्दकुद्दालापरपर्याये द्वितीयविश्रामस्य विवरणम् ॥२॥
For Private And Personal Use Only