________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वप्रदीपे
श्रुत-श्रुतोद्धाररक्षणे समानोपायत्वात् । प्रकरणपठनप्रज्ञायां सिद्धान्तपठनप्रज्ञाया अपि भवनात् । तदेवं त्वदीये पाठकानां प्रकरणानांच दर्शनात् स्वल्पस्याऽपि सिद्धान्तस्याऽदर्शनाच्च प्रकरणानां स्वमतितल्लितत्वेन सङघबाह्यत्वमित्यर्थः ।।२२।।
इत्थं स्वकृपाणच्छिन्नवत् स्ववचनहते रेभिः श्रुतं न छिन्नमित्यलीकं कृतमुत्तरमुत्थापयन्नाह. . अतं निवेत्तते, शास्त्रे तल्लक्षणं न किम् ? ।
यस्प: तविक त्वं, सङधः श्वेताम्बरोऽभवत् ॥२३॥ व्याख्या-चेत्-यषि, स्वदीये श्रुतं न छिन्न-सिद्धान्तो विद्यते इत्यर्थः । (तत्) ततः ते-तव, तल्लक्षणं-किं न ? । केवलं स्वयम्भू-पुष्पदन्त-भूतबलिप्रभृतिसामान्यशास्त्रकारनामाङिकतान्येव शास्त्राणि दृश्यन्ते । कस्मिश्चिच्छास्त्रे न तीर्थकसदिप्रणीतत्वप्रसिद्धिश्रवणं, न च योगोदहनादिकम् । योगोद्वहन विना हि श्रुतश्रुतोद्धारयोरन्तराभवनात् । आस्तामविसंवादिताविलोकनादिविशेषलक्षणं, सामान्यलक्षणाऽभवनेऽपि श्रुतमस्तीति महालीकवादिनो भवतः किं सिद्धं ?; इत्याह-'सङघ'त्यादि । इत्थममुना प्रकारेण श्रुताऽभवनलक्षणेन त्वं सङघस्पर्धी-सङघबाह्योऽभवः । श्वेताम्बरः सङघोऽभवत्, समग्रश्रुतलक्षणाऽलङकृतस्य श्रुतस्याङ्गीकारात् । श्वेताम्बरसिद्धौ सिद्धस्सचेलधर्म इति ॥२३॥
अथ स्त्रीनिर्वाणं स्थापयन्नाहूनिशि पत्युविवा देव-गुर्वोलिङगस्य वर्शनात् ।
नोक्ता मुक्तिर्यतः स्त्रीणां, त्वदीये युक्तमेव तत् ॥२४॥ व्याख्या-स्पष्ट: । नवरं-लिङगदर्शने हि मिथ्यात्वं शिवलिङ्गदर्शनवत् । तथा रागोत्पत्तिः स्यादतो न मुक्तिः ।।२४।।
For Private And Personal Use Only