________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टमो विश्रामः
--
-
गत्या गतिमिते क्षेत्रेतान्यगच्छे हि नाऽऽप्यते ।
एभ्यो विशिष्टतेष्वेवा-शठत्वाप्तिर्बलात्ततः ॥१६॥ व्याख्या-अत्रास्मिन् क्षेत्रे गतिमिते-मालवक-देवगिरितिलङ्गप्रभृतिके, हि-यस्मात् कारणात, अन्यगच्छे-तपोवद्गच्छव्यतिरिक्ते, एभ्यस्तपोवद्भयो, विशिष्टता-दुःकरकारिता न दृश्यतेन श्रूयते । तत एष्वेव तपोवत्स्वेव बलात् अशठत्वाप्तिः ॥१६॥
अतिचारः कषायाधस्तः प्रमत्ताप्रमत्ततः। बकुशादिषु मिथ्येषु, द्विः प्रतिक्रमणाविनाः॥१७॥ व्याख्या-एषु तपोवत्सु 'बकुशादिषु' बकुशेषु आदिशब्दा, कुशीलेषु तैस्सज्वलन : कषायाः कषायः क्रोधः ॥१०॥
पुनर्घनातिचारत्वा-च्चारित्रं नोज्वलं यथा । वासो धनमलं धोतं, ब्रह्मलोकाविनष्वतः ॥१८॥ व्याख्या-यद्यप्येषु तपोवत्सु चारित्रं द्विः प्रतिक्रमणादिना शुद्धं स्यात् पुनस्तथापि घनातिचारत्वात् घना-निबिडा, घनतरा वा येतिचारास्तः परस्परममीषां कषायभावात् कुतश्चारित्रमिति ये वदन्ति । ते उत्सूत्रप्ररूपका ज्ञातव्याः । 'किं सक्का वुत्तुं जे, सरागधम्ममि कोइ अकसाओ । जो पुण धरिज्ज धणियं, दुव्वयणुज्जालिए स मुणी' ॥१॥ [उप० माला] इति वचनादपि बहिः कषायफलादर्शनेनामीषां चारित्रसिद्धिरेवेति ॥१८॥
..... केवलज्ञानिनं विना सन्देहव्यपोहकस्याभाव... वचने न दूषणं इति मुग्धजनोक्तं उत्थापयन्नाह
दुष्टाः कुपक्षाः केबल्य-भावेऽपि यज्जिननंतः ।
ज्ञानोत्तमश्रुतज्ञान-स्सङ्घसङधक्रमोस्त्यसौ ॥१९॥ व्याख्या-अहो मुग्ध ! केवलज्ञानिनोभावेऽपि अमी कुपक्षा दुष्टाः, अमीषां कुपक्षाणां निजपक्षाकर्षणाद्दषणाः ......... केलिभिनतो-नमस्कृतोऽसौ-प्रत्यक्षोपलक्ष्यमाणस्तपोवतां सङघो
For Private And Personal Use Only