________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठो विश्राम:
wwwwwwwww
त्रिपौषधा विना पर्वकादशेऽङगे श्रुता दश । हिण्डौ च सप्ताहोरात्र-पौषधी विजयो नृपः ।।८॥
व्याख्या-एकादशेङगे दशः श्रावका: त्रिपौषधास्संलग्नपौषधत्रयोपेताः श्रुताः। पर्व-वार्षिक मुक्त्व, पर्युषणापर्वणि युष्माकर्मपि पौषधत्रयमाननादित्युक्तम् । तथा हिण्डो-वसुदेबहिण्डौ विजयो नृपः श्रीविजयो नाम राजा सप्ताहोरात्रपौषधी श्रूयते । ऐहिकार्थाःसप्तैते पौषधा इति परोपन्यस्तं दूषणमलीकमेव । पौषधेऽस्मिन् संवेगस्य भणनात् ।।८।।
घटाऽऽदानं मुखवस्त्रिकाऽनादानं च दूषयन्नाहगृहस्थभाजनं कुम्भः, किं यतेर्मुखवस्त्रिका । श्राद्धर्यद्यतिलिङगत्वात्, त्यक्ता साम्यं ततो न किम् ?॥९॥
व्याख्या-त्वदीये यतेवतिनः कुम्भो-घटः, किं दृश्यते ? कि, विशिष्टो ? गृहस्थभाजनं-गृहस्थोपकरणं, अप्रतिलेख्यत्वाऽप्रमायंत्वाभ्यां कुन्थुपनकादिविनाशेन हिंस्रत्वादेतदादानेन यतेरपि गार्हस्थ्यात् 'तुम्बे दारुमट्टे' इति वचनाद् यद् घटादानं तन्महामूढताविजृम्भितम् । यतो यतेरुत्सर्गतः तुम्बाऽऽदानं तुम्बाभावेऽपवादपदमाश्रित्य काष्टमयादानं काष्टमयाऽभावेऽपवादतो मृन्मयादानम् । अपवादस्योत्सर्गप्रवृत्त्यासेवनेन व्रतभङगात्कुतो भवतामनगारित्वम्? एतदूषण त्रिस्तुतिकादीनामपि समानम् । तथा त्वदीये यत् श्राद्धः-श्रावकैर्मुखवस्त्रिका यतिलिजगत्वात्-यतिलिङगमेतदितिकृत्वा त्यक्ता । ततस्साम्य-सामासिकं किं न त्यक्तं ?, सामायिकस्यापि अन्तरगयतिलिलमत्वात् ॥९॥
भारे न वेषः साम्यं तु, स्यात् सूत्रे तन तं विना । शिक्षाबलस्वाच्छिक्षा हि, यतिस्थद्रव्यभावयोः ॥१०॥ ..
For Private And Personal Use Only