________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 46 // 47 // भीमा देव्यवतारस्तु नाद्यापि जातः, वैवस्वत एव मन्वन्तरे पञ्चाशत्तमे चतुर्युगे भविष्यतीति लक्ष्मीतन्वादिति केचित्, वस्तुतस्तु रक्तदन्यादयः षडण्यवतारा भाविन एव, मूले पुनरपि, भूयश्च, पुनश्चाई, यदारुणाख्य, इत्येभिः पदैरुत्तरोत्तरकालस्यैव कीर्तनात 'तस्मिवेवान्तरे शक्र चत्वारिंशत्तमे युगे' इत्युपक्रम्य दुर्गादेवीति विख्यातं तन्मे नाम भविष्यति। पुनश्चाहं यदा भीमं रूपं कृत्वा हिमाचले // 46 // रक्षांसि भक्षयिष्यामि मुनीनां वाणकारणात् / तदा मां मुनयः सर्वेस्तोष्यन्त्यानममूर्तयः // 47 // भीमादेवीति विख्यातं तन्म नाम भविष्यति। यदाऽरुणाख्यस्वैलोक्ये महाबाधां करिष्यति॥४८॥ तदाहं भ्रामरं रूपं कृत्वाऽसंख्येय षट्पदम् / बैलोक्यस्य हितार्थाय बधिष्यामि महासुरम् // 46 // शताब्यवतारस्थ तन्त्रान्तरे कथनात्, तस्मिन्नेवेत्यस्य वैवस्वत इत्यर्थः। 'चतुर्युगेऽत्र पञ्चाशत्तमे मुनिभिरर्चिते'त्युपक्रम्य भीमादेवीकथनाच, तत्रैव 'युगे षष्ठितम, कश्चिदरुणो नाम दानव' इत्यादि कथनाच्च, परन्तु साम्प्रतिकाच्छेतवराहकल्पात् प्राक्तनकल्पेष्वपि देव्यवताराणामतेषां मन्वन्तरयुगभेदेन जातत्वाच्छाकभर्यादीनां तत्तत् कुलदेवतात्वेनार्चनमधुनातनानां सङ्गच्छत एव // 48 // 48 // For Private and Personal Use Only