________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[.३]
-ग्रह्यपरिशिथे।
३३५
दधिमधुशाकस्तूपसमन्वितनानाभक्ष्याणि समर्प्य प्रणम्य तत्समीपे यवगाधूमनिष्यावमुगमाषादिसम्भवं बलिं दत्वा, यज्ञभागं प्रतीक्षव पूजां चैव बलिं मम, नमा नमस्ते देवेश भव स्वस्तिकरा ममेति संप्रार्थ्य परिवारदेवताभ्यो बलिं दत्वाथ वास्तुसमीपे हस्तमात्रकुण्डे स्थण्डिले वातविधिनाग्निं प्रतिष्ठाप्यान्वाधायाज्यभागान्तं कृत्वा वास्तोष्यते प्रतिजानीह्यस्मानिति चतसृभिश्च हामं कृत्वा शिस्यादिपिलिपिज्जान्तान् अाज्येन हुत्वा हेोमशेषं समाप्याथ यजमाना वास्तुमूर्ति रौद्रकोणेऽधोमुखां गः प्रच्छादयेदाचार्याय वा दद्यादथाचार्य गोहिरण्यादिभिः परिताष्य नमस्हत्य क्षमापयेदन्येभ्यो ब्राह्मणेभ्यो यथाशक्तिदक्षिणां दत्वा कृतमङ्गलस्नाना ब्राह्मणान् भोजयित्वा वस्त्ययनं वाचयेदथ लब्धविप्राशीः सह बन्धुभिभुक्ता यथाशास्त्रं मठादेः प्रतिष्ठां कुर्यात् इति वास्तु पूजनविधिः ॥२॥ __ अथ प्रतिमाद्रव्याणि मुक्ताफलशिलादारुहेमताम्ररजतकांस्य मृत्ति कादीनि, महानीला यशः प्रदा दा. रुजा कामदा सौवणी भक्तिमुक्तिप्रदा राजता स्वर्गदा ताम्रमयी आयुर्वर्धिनो कांस्या आपद्धन्त्री पैत्तली शत्रुनाशिनी शैला सर्वभोगप्रदा स्फाटिका दीप्तिदा
For Private and Personal Use Only