SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ ०.७.१२] Acharya Shri Kailassagarsuri Gyanmandir गृह्यसूत्रे । 1 इति निवेदयेदिति शेषः । ता अर्घ्य श्रापः प्रतिग्राहयिय्यन् प्रतिग्रहणात् पूर्वं महत्सकृदयी श्रपेो निवेदयेत् । स्वधा अ इति मन्त्रेण । पित्रर्थं यावन्तो ब्राह्मणस्तेभ्यः सर्वेभ्यः प्रथममेकमेव पात्रं सकृन्निवेदयेत् । न प्रतित्राह्मणं । तथा पितामहायानां द्वितीयं सकृदेव । प्रपितामहार्थ्यानां ढतीयं सहदेवेत्येवमर्थं सकृत्सकृदिति वचनं । निवेदनस्य सकृत् नियमादन्यासामपान्दानं अर्घ्यदानञ्च श्रर्घ्यमन्त्राश्च प्रतिब्राह्मणमावर्त्तते । निवेदनान्योदकदानार्घ्यदानेषु पदार्थानुसमयः काण्डानुसमयो वा द्रष्टव्यः । गन्धादिदाने च तथा । एवमेकैकस्यानेकपक्षे । एकैकपक्षे वेकैकं पात्रमेकेकस्य निवेद्यान्या अप एकैकस्य दत्वा अर्घ्य अप एकैकस्य दद्यात् । सर्वेषामेकपक्षे त्रीण्यपि पात्राणि तस्यैत्र निवेद्य पुनः पुनरन्या अपो दत्त्वा तस्यैव चिरन्त्रिभिर्मन्त्रैः प्रयच्छेत् ॥ १२ ॥ २३६ प्रसृष्टा अनुमन्त्रयेत या दिव्या आपः पृथिवी सम्बभूवुर्यी अन्तरिक्ष्या उत पार्थिवीयः । हिरण्यवणी यज्ञियास्ता न आपः शंस्याना भवन्त्विति संखवान्समवनीयताभिरद्भिः पुत्रकामा मुखमनक्ति ॥ १३ ॥ ब्राह्मणैः प्रस्सृष्टा निर्णेता श्री अपोऽनुमन्त्रयेत् या दिव्या इत्यनेन मन्त्रेण | प्रसृष्टा इत्यादिकर्मणि कप्रत्ययः । भूतकालत्वमाचे श्रानर्थक्यप्रसङ्गात् । तेन प्रतिब्राह्मणं पृथगनुमन्त्रणं । For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy