________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१. १४. ८
ग्रह्यो ।
चतुर्वा ॥५॥
चतुवी व्यूइति मन्वेण ॥ ५ ॥
वीणागाथिनी संशास्ति सोमं राजानं संगायेतामिति ॥६॥
वीणा च गाथा च वीणागाथे ते ययो: स्तः तो तथोतो. तो संशास्ति सम्मेव्यति. मोमं राजानं मगायेतामिति ॥ ६ ॥
तो च एतां गाथां गायत इत्याह।
सोमा ना राजाऽवतु मानुषीः प्रजा निविष्टचक्राऽसाविमा नदीमुपवसिथा भवन्ति ॥७॥
अमाक्त्यिस्य स्थाने यस्या नद्याः समीपे वमन्ति तस्या नाम आमन्त्रणविभक्त्या ब्रूयाता. निविष्टचक्रा गङ्ग इति ॥ ७ ॥
ब्राह्मण्यश्च वृड्डा जीवपत्यो जीवनजा यद्यदुपदिशेयुस्तत्तत् कुर्युः ॥८॥
एवंगुणयुक्ता ब्राह्मण्यो यद्यद् ब्रुयुः तत्तत्कार्य। औषं दत्त्वा स्विटकदादि समापयेत् ॥ ८ ।।
For Private and Personal Use Only