________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४ याश्वलायनीये
[१. ७. २२] त्वात् भवादश्च योग्यत्वात् सन्निहितत्वाच्च प्रत्येकं सम्बध्यते । यथा रहस्ये उल्लिखामोति शब्दः 'प्राणाय त्वापानाय त्वा व्यानाय बोल्लिखामि' इत्यन्ये वाक्ये पठितोऽपि पूर्वत्रापि सम्बध्यते. तददत्रापि। ऐतरेयिभिरप्युक्तं. 'भवादि सर्वत्र समानं' इति । तेन इष एकपदी भव । मा मामनुव्रता भवेति सर्वत्र सम्बन्धनीयम्॥ १६ ॥
उभयाः सन्निधाय शिरसी उदकुम्मेनावसिच्य ॥
सप्तमे पदे अभ्युत्क्रामिते तत्रस्थ एवोभयोः शिरसो मन्त्रिधाय केनचिदुदकुम्भमानाय्य तत्रस्थेनोदकेन शिरसो अवसिञ्चति । अथाज्येन खिष्टकृतं जुहेाति ॥ २ ॥
ब्राह्मण्याश्च टड्ढाया जीवपत्न्या जीवप्रजाया अगार एतां रात्रि वसेत् ॥ २१॥
ग्रामान्तरगमने यद्यन्तरा वमतिः स्यात् तदा एवंगणयतायाः ब्राह्मण्या ग्टहेऽनन्तरां रात्रि वसेत्. वसतिं कुर्यादित्यर्थः । खग्रामे विवाहश्चेन्नायं विधिः ॥ २१ ॥
ध्रुवमरुन्धतों सप्तऋषीनिति दृष्ट्वा वाचं विसृजेत जीवपत्नों प्रजां विन्देयेति ॥ २२ ॥ ॥७॥
समाप्ते होमे रात्री ध्रुवादीन् दृष्ट्वा वाचं विसृजेत 'जीवपत्नी' इति मन्त्रेण । इदानीं वाग्विसर्जनविधानात् होमादारभ्य
For Private and Personal Use Only