________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३९
याश्वलायनीये
[१. ७. १५]
न्तर्यणोक्तानि. तत्र त्रयो होमाः. तत्र कथं पूर्व पूर्व परिणयनं कृत्वा पश्चात् होमः स्यादिति ज्ञापयितुमिति। शूर्पपुटः कोणः । वृष्णीवचनं प्रजापतिज्ञापनाथ। चतुर्थग्रहणं कथं । एतस्य द्रव्यस्य विष्टकृतं न स्यात्. स एव च कती यथा स्यादिति। तेन वधूर्जुहोति ॥ १४ ॥
ओप्योप्य हैके लाजान् परिणयन्ति तथोत्तमे आहुती न सन्त्रिपततः ॥ १५ ॥
अभिमतार्थज्ञापनार्थी शब्दः। एके लाजानोप्योप्य पश्चात् परिणयन्ति। किमिति। तथा सत्युत्तमे आहुती न सन्निपतत इति कृत्वा। पूर्वस्मिंस्तु पक्षे उत्तम आहुती सन्निपततः । कोऽयं सन्निपातो नाम यदि पूर्वाहुतिशिरसि प्रक्षेपः। न तर्हि क्वचिदप्यसाविव्यते. किं पुनः पूर्वस्मिन् पक्षे। अथानन्तयें। न. तहसौ दोषः। पार्वणदौ दृष्टवात्। तस्मादयमर्थः । यथोत्तमे आहुती न सन्निपततस्तथा कर्तव्यम्। उत्तमयोराहुत्योर्मध्ये परिणयनं कर्तव्यमित्यर्थः । कथं वा न स्यात्. अपरिणीय एर्पपुटेनाभ्यात्ममिति। अन्याथै कृतमपीह मध्ये परिणयनं निवर्तयेत्. अथ वा पूर्वस्मिन् पक्षे उत्तमे सन्निपततः। अत्र तु न सन्निपतत इति वदन् अपरिणोय-वचनं चतुर्थपरिणयनार्थमित्यस्मिन्नपि पक्षे पूर्व परिणयनं कृत्वा पश्चात् होमः. न चानन्तर्येण होम. इति ज्ञापयति। यदि त्वानन्तर्येण होमः स्यात् सर्वासामेव सन्निपातादुत्तमयोराहुत्योः पूर्वस्मिन् पक्षे सन्निपात इति नोपपद्यते ॥ १५ ॥
For Private and Personal Use Only