________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
महागणपतिपूजाप्रयोगः । अथ महागणपतिपूजाप्रयोगः । तत्र तावत्सर्वेषां स्मातकर्मणां बचिर्भूतमन्तर्भूतं चेति हिविधमङ्गम् । तत्र तत्तत्कर्मसङ्कल्पपति कर्मसमाप्तिपर्यन्तं सूत्रोक्तं यदङ्गजातं सदन्तर्भूतमन्तरङ्गम् । यत्कर्म सङ्कल्यात्पूर्व सूत्रेण विहितमाभ्युदयिकश्राद्धं वायव्यपशुबन्धधातवीयेष्ट्यादिवत् पौराणिकदेशकुलाचारप्रसिद्धगणेशपूजादिकञ्च बचिर्भूतमङ्ग बहिरगम् । उभयोरप्यनुष्ठानस्यावश्यकत्वेन सौचाङ्गानां सूत्रकारेशैवेतिकर्तव्यताया उक्तत्वान्महागणपतिपूजनस्याविहितत्वेऽपि तत्पूजनस्य करिष्यमाणकर्मण: निर्विघ्नपरिसमाप्तयेऽवश्यानुष्ठेयत्वेन तत्पूजनप्रयोगः सङ्ग्रहेण प्रदर्श्यते । तत्र “व्यस्ताभिः समस्ताभिव्याहृतिभिरावाहनादिक” बोधायनेनोक्तम् । “वैनायकसामभिः पूजन” छन्दोगब्राह्मणे तावदाम्नातम्। अन्ये तु “गणानान्त्वेतिमन्त्रेण पूजन” कुर्वन्ति । परे तु तत्तन्नाममन्त्रेण प्रजन" कर्वन्तिानचादौ यजमानः सनातः कृतपर्वान्हिकक्रियः समलङ्कतः पत्न्या सह कुशपवित्रपाणिर्दभष्वासीनः प्रामा विघ्नेशकुलदेवतादीन ध्यायेत् । तदथा । यं ब्रह्म वेदान्तविदो वदन्ति परं प्रधानं पुरुषं तथाऽन्ये । विश्वोहतेः कारणमीश्वरं वा तस्मै नमो विघ्नविनाशनाय ॥ १ ॥ विघ्नध्वान्तनिवारणैकमरणिविघ्नाटवीहव्यवाट् विघ्नव्यालकुलोपमहंगरुडो विघ्नेभपचाननः । विनोत्तुङ्गगिरिप्रभेदनपविविघ्नाब्धिकुम्भोद्भवो विना घौघघनप्रचण्डपवनो विघ्नेश्वरः पातु नः ॥ २ ॥ या कुन्देन्दुसुषारहारधवला या शुभ्रवस्त्राटता या वीणावरदण्डमण्डित
-
For Private And Personal