________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धकल्पः।
[२ का.
इति तस्मादन्यादृशमेव पठितम् । तदेतदपि मतदयं कथं समुच्चिचीपति, इति न खल्वधिगच्छामि । समुच्चयरसिकारघुनन्दनस्वनयोः समुच्चयमुपपादयितुमपारयन् साधारणत्वञ्च मत्स्यपुराणीयप्रयोगस्याजानामः कल्पनाकुशलः शाख्यन्तरीयत्वं तस्य कल्पयाञ्चकार । तदश्रद्धेयम् । साधारणाभ्युदयकीननाध्याये खल्वयं प्रयोगस्तत्रोपदिष्टः सर्वसाधारणएव भवति । स कथं शाख्यन्तरीयः शक्यः कल्पयितुं ऋते निरङ्कशत्वं मनसः । शाख्यन्तरीयत्वे च नास्य साधारणत्वं स्यात् । शाख्यन्तरीयत्वकल्पना चैवंविधस्थले भवतामबलम्बनम् । सालिह न सम्भवतीत्यकामेनाप्यस्मत्सिद्धान्तोऽत्राभ्युपगन्तव्यः, इत्यस्तु किं विस्तरेण ॥०॥ ३३ ॥०॥
वाच्यतामित्यनुज्ञातः पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यो मातामहेम्यः प्रमातामहेभ्योवप्रमातामहेभ्यश्च स्वधाच्यतामिति ॥ ३४ ॥
ऋजुरक्षरार्थः । चशब्दात् ‘वोच्चताम्'-दत्यस्य प्रत्येकमतिसंबन्धः । तेन, 'पिटभ्यः खोच्यताम्'-दत्यादिकं वक्रव्यं भवति । अतोनात्र तन्त्रता । तथाच कात्यायनः ।
"अर्थेऽक्षय्योदके चैव पिण्डदानेऽवनेजने । तन्त्रस्य विनिवृत्तिः स्यात् खधावाचनएवच ।
इति। अत्र, मातामहाद्युपादानस्थाभिप्रायः पूर्वसूत्रे वर्णितास्माभिः॥ ॥०॥ ३४ ॥०॥
For Private and Personal Use Only