________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
CC8
[र का. ]
मिदानीमुत्पादयितव्यम् । न खल्वनुत्पाद्य पवित्र शक्यन्ते दर्भाः सपविचाः कर्त्तुम् । ननु, सन्ति पविचाण्यर्ध्वपात्र संबन्धीनि ? । सत्यं सन्ति । ब्राह्मणाय प्रतिपादितानि तु तानि कथमचापि नियुज्येरन् । पितरोहि तैस्तर्पिताः । श्रपिच । किमेतत् पविचम संबन्धि, श्रहेाविदन्यदित्यस्मिन् संशये, अन्यदिति प्रतिपद्यामहे । किं कारणम् ? | स्वधानिनयनार्थीह्यन्ये दभीः सन्निकृष्यन्ते । स्वधानिनयनीया दभीगृह्यन्ते । तस्मात् पविचाण्यपि तेभ्यएव कर्त्तव्यानि भवन्ति । व्यपेतानि खल्वर्घ्यपवित्राणि न बुद्धिमागच्छन्ति । श्रागच्छन्ति त्वितरे दर्भा: ; येभ्यः स्वधानिनयनीयाग्टह्यन्ते । यथा दर्शपौर्णमासयोर्विष्टती पवित्र च न वेदिस्तरणार्थदर्हिषः क्रियेते, किन्त्वव्यक्तत्वात् ततोऽन्यस्मात् परिभोजनीयादर्हिषः । तथाऽत्रापि नापात्रसंबन्धि पवित्रमादेयं किन्त्वव्यक्तत्वात् स्वधानिनयनार्थादर्भात् । नचेदेवम्, पिण्डदानार्थरेखाstriमंबन्धिना पवित्रेण क्रियताम् । नचैवं क्रियते । तस्मात्, - तदर्थमिव एतदर्थमपि पवित्रमुत्पादयितव्यम् । तथा चोत्रम् | “विरोधे च श्रुतिविशेषादव्यक्तः शेषे ” - इति ।
श्राह । दभीनास्तीर्य - इत्यक्तम् । न ज्ञायते कुत्र इमे दभी श्रास्कृतव्याः - इति । पिण्डेषु - इति ब्रूमः । कुतः ? । “पवित्रान्तर्हि - तान् पिण्डान्,”–इति कात्यायनवचनात् । श्रतएव दैवे नैतत् स्यात् । तच पिण्डाभावात् । 'स्वधां वाचयिष्ये' - इत्ययञ्च प्रश्न: पितृपक्षे मातामहपचे च सकृदेव भवति । कथं ज्ञायते ? | यदयं सूत्रकारः
प्र सूत्रयित्वा उत्तरत्र षणामेव स्वधावाचनं सूत्रयिष्यति, ततेाऽवगच्छामः, -षणामुद्देशेन सकदेव प्रश्नोऽयं भवतीति । श्रन्यथा
Acharya Shri Kailassagarsuri Gyanmandir
tantयः ।
For Private and Personal Use Only
-