________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धकल्पः।
[१ का.]
“यथोक्तवस्वसम्पत्तौ ग्राह्य तदनुकारि यत् ।
यवानामिव गोधूमाः बीहीणामिव शालयः” । इति । कः पुनीह्मणस्य प्रतिनिधिः ?। दर्भवटुरित्याह। कथं ज्ञायते ?। ब्राह्मणकार्य तस्य दर्शनात् । तथाच ग्टह्यसूत्रम् । "यावा उभयं चिकीर्षद्धौवञ्चैव ब्रह्मत्वञ्चैव, तेनैवकल्पेन छत्रं वोदकमण्डलुं दर्भवटुं वा ब्रह्मासने निधाय" इति। तथोपाकर्मणि छन्दोगपरिशिष्टम् । “कौशानुषीन् स्थलस्थान्" इत्यादि। स्मरन्ति च।
"ब्राह्मणानामसम्पत्तौ कृत्वा दर्भमयान् दिजान् ।
कृत्वा श्राद्धं विधानेन पश्चाविप्रेषु दापयेत्” । इति। तदत्र कुशमयब्राह्मणेऽपि श्राद्धकरणे प्रश्नप्रत्युत्तरादिकं सर्वमेव विधानं प्रकृतादेव भवति, इत्यवगच्छामः । कुतः । यतः कुशमयब्राह्मणपक्षेऽपि तेनैव कन्पेन'-इत्यनेन तत्र भवान् ग्राह्यकारः । सर्वमेव प्राकृतं कल्पमनुजानाति, ततोऽन्यत्रापि तथैव युक्तं प्रतिपत्तुम्। कारणस्थाविशेषात् । न पुन: खमणीषिकोत्प्रेक्षया कस्यचिल्लोपः कल्पयितुमुचितः । तथाच श्राद्धे सत्यव्रतः ।
“विधायाथ दर्भचयमासनेषु समाहितः ।
प्रैषानुप्रैषसंयुक्त विधानं प्रतिपादयेत्” । इति । प्रेषः प्रश्नः । प्रेषादनु-पश्चात् यो भवति, सायमनुप्रेषः प्रत्युत्तरम् । तत्संयुक्तस्य विधानस्योपदेशात् सर्वमेव प्रश्नप्रत्युत्तरादिकं कर्त्तव्यमिति दर्शयति । तेन, हप्नोस्मि, इत्यादि प्रत्युत्तरमचापि भवत्यदृष्टार्थम् । समवेतत्वाभावात् प्रत्युत्तरविलापोमा प्रशाङ्कीदिति
For Private and Personal Use Only