________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रादकल्पः।
[१ का.]
निगमवचनमात्रदर्शी रघुनन्दनस्वाह,-'श्रमावस्था न निमित्तान्तरं, किन्तु कृष्णपक्षनिमित्तश्राद्धस्य प्रशस्तकालः' इति । तदश्रद्धेयम् । अपरपने यदहः सम्पद्यते तदहः कुर्यात् , कृतेप्यपरपक्षे यस्मिन् कस्मिंश्चिदइनि, अमावस्यायान्तु विशेषेण यत्नेन कुर्यात् , तुशब्दात् पूर्वस्मादन्यदिदं श्राद्धम् इति यदि निगमवचनस्यार्थः, तदा तदपि तन्मतमुन्मूलयति, इत्यस्तु किं विस्तरेण ॥०॥ ४ ॥०॥ यमपरा सूत्रद्दययोजना,
पञ्चमीप्रकृति वाऽपरपक्षस्य ॥३॥
अपरपक्षस्य,
"आषाढीमवधिं कृत्वा यः स्यात् पक्षस्तु पञ्चमः ।
स विज्ञोऽपरः पक्षः कन्यां गच्छतु वा नवा" । इत्यादि स्मृत्युक्तलक्षणस्य । वाशब्दः,
"अश्वयुकृष्णपक्षे तु श्राद्धं कुर्याद्दिने दिने ।
त्रिभागहीनं पक्ष वा त्रिभागन्त्वमेव वा”। इति ब्रह्मपुराणाद्युक्तकल्पान्तरापेक्षया विकल्पार्थः। तत्र, 'अर्द्धम'इति पक्षस्यार्द्धमटम्यादिकमर्थः। अर्द्धं पक्षम् , इत्यन्वयोपपत्तेः । न तु विभागस्थार्द्धम्। अर्द्धविभागयोईयोरपि पक्षविशेषणतया समत्वेन परस्परमन्वयानुपपत्तेः । तथाच गौतमः । “अथापरपक्षे श्राद्धं पिटभ्योदद्यात् पञ्चम्यादि दर्शान्तमष्टम्यादिदशम्यादि सर्वस्मिंश्च" इति। यन्न,
“पञ्चम्या उत्तरे दद्यादुभयोबंगयोच॑णम्” ।
For Private and Personal Use Only