________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ प्र. ]
गृह्यसंग्रहः ।
मनुषज्य संबन्धनीयम् । श्राह । केयं विहितप्रतिषिद्धा नाम ? | उच्यते । महतः पात्रान्तरस्य सद्भावे श्रपां पूर्णः स्रुवः । तथाच गोभिलस्रुत्रम्। “उत्तरतोऽपां पूर्णः स्रुवः प्रणीता भावे न वा स्यादित्येके " - इति ॥
२१
वैरूपाक्षं जपेन्मन्त्रं प्रपदश्चैव यज्ञवित् । परिधीरस्तु न कुर्व्वीत ह्याकर्म्मसु याज्ञिकः ॥९७॥ उदकाज्ञ्जलयस्तिस्रस्ते वै परिधयः स्मृताः ।
“वैरूपाक्षः पुरस्ताद्धोमानाम् " - इति सूत्रोक्तं वैरूपाक्षं मन्त्रम्, प्रपदञ्च - " तपश्च तेजश्चेति जपित्वा" - इति सूत्रोक्तम्, -गृह्याकसु जपेदन्यत्र क्षिप्रहेामेभ्यः । तथाच कर्मप्रदीपः ।
" न कुर्य्यात् क्षिप्रहेामेषु द्विजः परिसमूहनम् । वैरूपाक्षञ्च न जपेत् प्रपदञ्च विवर्जयेत्” । इति । “पूर्व्वेषु चैके” – इत्युपक्रम्य वैरूपाक्षादीनामुक्तत्वात् प्रणीताद्विहितप्रतिषिद्धतया एतान्यपि गृह्याकर्मसु न कर्त्तव्यानीति मा प्रशाङ्गीदिति खल्वाचार्य्यपुत्रः, वैरूपाक्षं जपेत्, – इत्याह । परिधींस्तु, – “परिधीनप्येके कुर्व्वन्ति" - इति सूत्रोक्तान्, ग्टह्याक न कुर्वीत । तत्र हेतुः । श्रदितेऽनु, –— इत्यादि मन्त्रैर्ये चयः– (तिस्रःइति व्यत्ययेन स्त्रीत्वम्, त्रय इत्यर्थः) उदकाञ्जलयः, तएव परिधयोsस्माकमाचार्यैः स्मृताः । तस्मात् यत्रापि परिस्तरणं नास्ति,
v
तत्रापि परिधीन् न कुर्व्वीत ॥
For Private and Personal Use Only