________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
गृह्यासंग्रहः ।
Acharya Shri Kailassagarsuri Gyanmandir
"प्रागुदीच्यां दिशि न्यग्रोधराङ्गामुभयतः फलामखामामकृमिपरितृप्तां त्रिः सप्तैर्यवैमासेवा परिक्रीयोत्थापयेत्” - इत्यादि
के राङ्गा
कर्माणि शोभनो नामाग्निः । सीमन्ते सीमन्तकरणे । स्पष्टमन्यत् ॥
[१. प्र.]
こ
नाम्नि च पार्थिवा ह्यग्निः प्राशने च शुचिस्तथा । सभ्यनामाऽथ चूड़े तु व्रतादेशे समुद्भवः ॥ ४ ॥
"
नामकरणे पार्थिबेा नामाग्निः । श्रन्नप्राशने शुचिर्नामाग्निः । चूड़ाकरणे सभ्यो नामाग्निः। ‘सत्यनामा' - इति रघुनन्दनः पठति । व्रतानाम्गोदाने विशेषस्य वच्यमाणत्वात् व्रातिकादित्यव्रतमहानाम्निकोपनिषदज्यैष्टमाम्नाम्, श्रदेशे उपदेशे समुद्भवो नामाग्निः कथितः ॥
गोदाने सूर्य्यनामा तु केशान्ते यग्निरुच्यते । वैश्वानरा विसर्गे तु विवाहे योजकः स्मृतः ॥ ५ ॥ गोदाने गोदानिकते सूर्य्यनामा श्रमि: । गोदानाङ्के मयाले केशान्ते कर्माणि श्रग्निनामाग्निः । विसर्गे - व्रतप्रस्तावात् व्रतानन्तरं करणीये मीत्यागे समावर्त्तनापरनामधेये गृह्येोके श्रानावनाख्ये कर्म्मणि - इत्येतत् । “मौञ्जीविसर्गे त्यागे वैश्वानरा नामाग्निः”— इति दीक्षितभाष्यम् । विसर्गे दाने, - इति केचित् । विवाहे योजका नामाग्निः ||
I
चतुर्थ्यान्तु शिखीनाम धृतिरग्निस्तथाऽपरे । आवसथ्ये भवेा ज्ञेया वैश्वदेवे तु पावकः ॥ ६ ॥
* नाम्नि स्यात्, – इति पाठान्तरम् ।
For Private and Personal Use Only